________________
प्रकरणम् ] सुबोधिनी-शेखरसहिता । समासे कान्ते परे द्वितीयान्त प्रकृया। कष्टश्रितः । ग्रामगतः । कष्टशब्दोऽन्तो. दात्तः । ग्रामशब्दो नित्स्वरेण । महीने किम्-कान्टारातीतः । * अनुपसर्ग इति वक्तव्यम् । नेह सुखप्राप्तः । 'थाथ' (३८७८) इत्यस्यापवादोऽयम् । ३७८२ तृतीया कर्मणि । (६-२-४८) कर्मवाचके क्रान्ते परे तृतीयान्तं प्रकृत्या । स्वोतासः । रुद्रहतः । महाराजहतः । रुद्रो रगन्तः। कर्मणि किम्रथेन यातो रथयातः । ३७८३ गतिरनन्तरः। (६-२-४६) कर्मार्थ कान्ते परेऽव्यवहितो गतिः प्रकृत्या । 'थाथ' (३८७८) इत्यस्यापवादः । पुरोहितम् । अहीनवाचिनि समास इति । पूर्वपदद्वारेण समासस्याहीनवाचिवम् । कष्टश्रित इति । 'द्वितीयाश्रिता-' इति समासः। कष्टशब्द इति । क्लान्तत्वात् । ग्रामशब्द इति । 'प्रसेरा च' इति मन्प्रत्ययान्त श्राद्युदात्तः । अनुपसर्ग इति वक्तव्यमिति । सूत्रेऽहीनग्रहणमपनीयानुपसर्गप्रहणं कर्तव्यं व्यापकत्वादित्यर्थः । थाथेत्यस्यापवाद इति । तथा च प्रत्युदाहरणे थाथादिस्वर इति भावः । तृतीया । त्वोतास इति । त्वया ऊता रक्षिताः त्वोतासः । 'प्रत्ययोत्तरपदयोश्व' इति मपर्यन्तस्य त्वादेशे दकारलोपश्चान्दसः। अवतः क्तः 'ज्वरत्वर-' इत्यूठ । 'एत्येधत्यूठसु' इति वृद्धेरि डागमस्य चाभावश्चान्दसः। तदन्ताजसः ‘ाजसेरसुक्' इत्य. सुगागमः । पूर्वपदप्रकृतिस्वरे कृते 'एकादेश उदात्तेनोदात्तः' ततः स्वरितप्रचयः । रगन्त इति। रोदेगिलुक् च' इति विहितः । महाराजहत इति। 'राजाहःसखिभ्यष्टच्' इति टजन्तो महाराजशब्दोऽन्तोदात्तः। रथेन यात इति । गत्यर्थत्वात् कर्तरि क्वः । पुरोहितमिति । 'पूर्वाधरावराणामसिपुरधवश्चैषाम्' इत्यसिप्रत्ययान्तः प्रत्ययस्वरेणान्तोदात्तः पुरःशब्दः । अत्र समासान्तोदात्तत्वम् अव्ययपूर्वपदप्रकृतिस्वरः कृत्स्वा : थाथादिस्वरे इत्येतेषु प्राप्तेषु पूर्वपदप्रकृतिस्वरो भवति । नीति । अविभागवाचिनीत्यर्थः । थाथादिस्वरापवादोऽयम् । अनुपसर्ग इतीति । अनेनैवातीतादिव्यावृन्निसिद्धावहीन इति व्यर्थमित्याहुः। तृतीयाक । अयमपि थाथादिस्वरापवादः । वोतास इति । त्वया ऊताः रक्षिताः-त्वोतासः । 'प्रत्ययोत्तरपदयोश्चेति मपर्यन्तस्य त्वादेशे दकारलोपश्छान्दसः। अवतेः क्तः । 'ज्वरत्वरे.' त्यूठ । 'एत्येधतीति वृद्धेरिडागमस्य चाऽभावश्चान्दसः । पूर्वपदप्रकृतिस्वरे कृते एकादेश उदात्तेनोदात्त , ततः स्वरितः । रथयात इति । गत्यर्थत्वात्कतरिक्तः । गतिरनन्तरः। गतिः तिजन्तः, पुंल्लिङ्गाऽनन्तरपदसामानाधिकरण्यात् । निपात. नादनुनासिकलोप इति हरदत्तः । गतिशब्दस्य तत्सज्ञकशब्दपरत्वान्न सामाना. धिकरण्यानुपपत्तिरिति कश्चित् । पुरोहितमिति । पुरःशब्दोऽसिप्रत्ययस्वरेणा