SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ ५४६ ] सिद्धान्तकौमुदी । [ समासस्वर शब्दः । ३७७७ चतुर्थी तदर्थे । ( ६-२-४३ ) चतुर्थ्यन्तार्थाय यत्तद्वाचिन्युत्तरपदे चतुर्थ्यन्तं प्रकृत्या । यूपाय दारु यूपदारु । ३७७८ अर्थे । ( ६-२-४४) अर्थे परे चतुर्थ्यन्तं प्रकृत्या । देवार्थम् । ३७७६ क्ले च । ( ६-२-४५ ) क्रान्ते परे चतुर्थ्यन्तं प्रकृत्या । गोहितम् । ३७८० कर्मधारयेऽनिष्ठा । ( ६-२-४६) क्लान्ते परे पूर्वमनिष्ठान्तं प्रकृत्या । श्रेणिकृताः । श्रेणिशब्द प्रद्युदात्तः । पूगकृताः । पूर्गशब्दोऽन्तोदात्तः । कर्मधारये किम्-श्रेण्या कृतं श्रेणिकृतम् । श्रनिष्ठा किम् - कृताकृतम् । ३७८१ महीने द्वितीया । ( ६-२-४७ ) श्रहीनवाचिनि यस्य तत्पुरुषस्येत्यादि । एतेन दासीभारादेराकृतिगणत्वं दर्शितम् । चतुर्थी तस्मै इदं तदर्थं तच्छब्देन चतुर्थ्यन्तस्यार्थ उच्यते । तदाह चतुर्थ्यन्तार्थाय यदिति यूपदाविति । निदिति दीर्घश्रेत्यनुवर्तमाने 'कुयुभ्यां च' इति पः । निस्वादायुदात्तो यूपशब्दः । देवार्थमिति । देवः पचायजन्तः । गोहितमिति । 'चतुर्थी चाशिष्य-' इत्यादिना चतुर्थी । श्राद्युदात्त इति । श्रिञ् सेवायाम् । वहिश्रियुदुग्लाहात्वरिभ्यो नित्' इति निप्रत्ययस्य नित्वादाद्युदात्तः । पूगशब्द इति । 'मुदिप्रोर्गग्गी' बाहुलकात्पूञोऽपि गक् । कृताकृतमिति । 'क्लेन नञ्विशिष्टेनानञ्' इति समास: । श्रनिष्ठत्यनुच्यमाने इहैव स्यात् । श्रेण्यादिसमासापेक्षया 'क्लेन नञ्विशिष्टेन' इति समासस्य प्रतिपदोक्तत्वादिति हरदत्तः । ग्रहीने । होनं त्यक्तं न हीन महीनम् । यस्य समासस्येत्येव वदन्ति । यूपदाविति । यूपं आयुदात्तः, 'कुयुभ्याचे'त्यत्र निदित्यनुवृत्तेः । प्रकृतिविकृतिभाव एवाऽयं खर इष्यते, 'अर्थे' 'के च' इत्यनयोरारम्भात् । तेन ‘कुत्रेरबलि’रित्यत्र न । तदर्थे किम् ? गोसुखम् । देवार्थमिति । देवायेदमिति विग्रहः, तादर्थे चतुर्थी । क्ले च । प्रतिपदोक्तत्वाद्धितरक्षिताभ्यां समासस्यैवाऽत्र ग्रहणम् । गोहितमित्यत्र 'हितयोगे चे 'ति चतुर्थी । एवङ्गोरक्षितमित्यत्र तादर्थे चतुर्थी । अन्ये तु हितशब्दे नाऽस्य प्रवृत्तिः, अत्रापि तदर्थे इत्यनुवृत्तेः । अत एवाऽस्य सूत्रस्य प्रकृतिविकृतिभाव एव 'चतुर्थी तदर्थे त्यस्य प्रवृत्तौ ज्ञापकता 'चतुर्थी तदर्थार्थे 'ति सूत्रभाष्योक्का सङ्गच्छते । न ह्यत्र तस्य प्रवृत्तिः, हितयोगे तादर्थ्याऽभावात् । न च 'हिते चे 'ति वक्तव्ये 'क्ले चैति सामान्यसूत्रं रक्षितार्थमपि सज्ज्ञापकमिति भाष्याशयः, गुरुत्वादुत्तरार्थं तस्यावश्यक चेत्याहुः । कर्मधारये - Sनिष्ठा । श्रत्र प्रतिपदोक्त श्रेण्यादिसमासस्यैव प्रहणम् । तेन वैदिकपण्डित इत्यत्र न । इदञ्च 'महान्त्रीही ति सूत्रे भाष्ये स्पष्टम् । कृताऽऽकृतमिति । 'प्राकृत'मिति च्छेदः । कृतापकृतादीनाञ्चोपसङ्ख्यानमिति प्रतिपदोक्तः समासः । 'कृत'मिति च्छेदस्तु न युक्तः, तस्य कान्तोत्तरपदत्वाऽभावेनाऽप्राप्तेः । श्रहीनवाचि
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy