________________
प्रकरणम् ] सुबोधिनी-शेखरसहिता [ ५४५ कम्बलः संज्ञायामिति वक्तव्यम् । अन्यत्र पणितम्ये कम्बले समासान्तोदात्तस्वमेव : प्रतिपदोक्नसमासे 'कृत्याः' (२८३१) इत्येष स्वरो विहितः । दास्या भारो दासीभारः । देवहूतिः । यस्य तत्पुरुषस्य पूर्वपदप्रकृतिस्वरस्व. मिष्यते न विशिष्यवचनं विहितं स सर्वोऽपि दासीभारादिषु द्रष्टव्यः । स राये स पुरंध्याम् । पुरं शरीरं धीयतेऽस्यामिति 'कर्मण्यधिकरणे च' ( ३२७१) इति किप्रत्ययः । अलुक् छान्दसः । (फि०) 'नविषयस्य' इत्याधुदात्तः पुरभावे प्राप्ते नान्तस्य टिलोपे सब्रह्मचारीत्यनेन टिलोपः । पण्यशब्दे इति । 'अवधपण्य-' इति यदन्तो 'यतोऽनावः' इत्याद्युदात्तः । संज्ञायामिति । नियतप्रमाण कस्य नियतमूल्यस्। कम्बलस्यैषा संज्ञा । समासान्तोदात्तत्वमेवेति । ननु परयशब्दस्य 'कृत्यप्र ययान्तत्वात्' 'तत्पुरुषे तुल्यार्थ-' इत्यादिना पूर्वपदप्रकृतिस्वरेण भाव्यमत अाह प्रतिपदोक्ते हीति । 'कृत्यतुल्याख्या अजात्या' इति यः कृत्यसमासः प्रतिपदोक्तस्तत्रैव सः । अयं तु 'विशेषणं विशष्येण-' इति सामान्य लक्षणविहितः कम्बलशब्दस्य जातिवचनत्वात् । न च 'कृत्यतुल्याख्या अजात्या' इत्यस्य वैयय शङ्कयम् । तद्धि गुणक्रियावाचिनोरनियमेन पूर्वनिपातप्रसङ्गे कृत्यान्तस्य पूर्वनिपातार्थ वचनं नतु जातिनिषेधार्थमजात्येति वचनं न्यायसिद्धार्थाः नुवाद एवेति स्थितम् । दासीभार इति । 'दंसेप्टो न आ च' इति टित्त्वान्डी उदात्तनिवृत्तिस्वरेण दासीशब्दोऽन्तोदात्तः। देवहूतिरिति । देवः पचाद्यजन्तः । छात्रार्थे 'सब्रह्मचारी' त्यादिवचनेन टिलोपः । 'पण्यकम्बलः कर्मधारयः, बहुलप्रहणासमास' इत्युक्तं समासप्रकरणे । परायशब्दो यदन्तत्वादाद्यदात्तः। केचित्त-ननु द्वितीयाकृत्या इत्येव सिद्धमिति चेन्न, प्रतिपदोक्ते 'कृत्यतुल्याख्येति समासे एव तत्प्र. वृत्तेः । इह तु विशेषणसमसः। नन्वजात्येति प्रतिषेधसामर्थ्याद् दुर्लभोऽसाविति चेन्न, अजात्येति न जातिप्रतिषेधार्थम् , किन्तु न्यायसिद्धार्थानुवादकमात्रम् । तत्फलन्तु गुणक्रियावाचिनामनियमेन पूर्वनिपाते प्राप्ते तनियमार्थ सूत्रमिति व्युत्पादनम् । स्पष्ट. ञ्चेदं वृत्त्यादावित्याहुः । तन्न । स्वरविधायके 'कृत्यतुल्याख्ये'त्येव वक्रव्ये कृत्यतुल्यार्थयो. वियोगपाठेनाऽर्थपदघटितपाठेन च तदंशे परिभाषाया अप्रवृत्तेः । अत एव प्रकृतसूत्रे कृत्यप्रत्ययान्तत्वात्पूर्वपदप्रकृतिवरे सिद्धे ‘परयकम्बलः सज्ञायामेव', 'पण्यकम्बल एवेति वा नियमार्थमिदं विशेषणसमास' इति भाष्यकैयटयोरुक्तम् । सज्ञायामिति । नियमार्थमिदन्तदाह अन्योति । प्रतिपदोक्त इत्यादि तु वृत्त्यनुरोधेन । तेन सोऽपि न भवतीति तद्भावः । दास्या भारो दासीभारः। यस्य तत्पुरुषस्येति। केचित्तु