________________
प्रकरणम् ]
सुबोधिनी - शेखरसहिता ।
[ ५४३
लिहिलः । महच्छत्रदोऽन्तोदात्तः । 'सन्महत्' ( ७४० ) इति प्रतिपदोक्तसमास एवायं स्वरः । नेह । महतो ग्रीहिर्महद्व्रीहिः । ३७७३ क्षुल्लकश्च वैश्वदेवे | (६-२-३६) चान्महान् । तुल्लकवैश्वदेवम् । महावैश्वदेवम् । दुधं लातीति क्षुल्लः । तस्मादज्ञातादिषु केऽन्तोदात्तः । ३७७४ उष्ट्रः सादिवाम्योः । ( ६२-४० ) उष्ट्रसादी । उष्ट्रवामी । उपेः ष्ट्रनि उष्ट्रशब्द भाद्युदात्तः । ३७७५ गौः सादसादिसारथिषु । ( ६-२-४१ ) गोसादः । गोसादिः । गोसारथिः । ३७७६ कुरुगार्हपतरिक्तगुर्व सूत जरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूपरायकम्बलो दासीभाराणां च । ( ६-२-४२ ) एषां सप्तानां समासानां
इति 'वर्तमाने पृषन्महत्-' इत्यत्र तथा निपातनात् । सन्महदिति । एतच्च लक्षणप्रतिपदोक्त परिभाषया लभ्यते । ननु प्रवृद्धग्रहणमनर्थकं 'कर्मधारये निष्ठा' इति वक्ष्यमाणेनैव सिद्धत्वात् कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्' इति प्रवृद्धशब्दस्य क्लान्तत्वादिति चेन्न । 'कर्मधारये निष्टा' इत्यत्रापि लक्षणप्रतिपदोक्त परिभाषया क्तान्तेन प्रतिपदोक्तो यः समासः श्रेण्यादिस्तस्यैव प्रहणमित्यर्थः । क्षुल्लक | क्षुल्लकमहच्छब्दौ पूर्वपदं प्रकृतिस्वरौ स्तः वैश्वदेवशब्दे परे । तुल्लकेति । ‘आतोऽनुपसर्गे कः’ । 'तोर्लि' इति परसवर्णः । उष्ट्रः । उष्ट्रः पूर्वपदं प्रकृतिस्वरं स्यात्सादिवाम्योः परतः । उषेः ष्ट्रनीति । उष दाहे अस्मात् ष्ट्रनिति वर्तमाने 'उषिखनिभ्या कितू' इति व्युत्पादितत्वात् । गौः साद । गोशब्दः पूर्वपदं कृत्या सादादिषूत्तरपदेषु । गोसाद इत्यादि । सदेर्घञ् । तदन्तेन षष्ठीसमासः । अथवा गां सादयति गोसादः । सदेर्यन्तात्कर्मण्यण् तस्मादेव णिनिः । गोसादी । तत्र सादसादिनोः कृत्स्वरस्यापवाद इत्यर्थः । सारथौ समासस्वरस्य । कुरु । इह पण्यकम्बलान्ताः स'त समासाः । तत्रादितो द्वयोः षष्ठ्याः सौत्रो लुक, इतरेषां पञ्चानां षष्ठाः स्थाने प्रथमैकवचनम् । तदाह एषामिति । दासीभाराखामिति
पार्थिवाः, जरामृत्यू, याज्यानुवाक्ये । वृत् । क्षुल्लकश्च । वृत्तावेषु तत्पुरुष इति नानुवर्त्तितम् । एवाऽव्ययीभावाद्यसम्भवेऽपि द्वन्द्वतत्पुरुषसाधारणानीमानि । युक्तं चैतत् । अन्यथा तम्पुरुषप्रकरणमध्ये ' परिप्रत्युपापेति पञ्चसूत्री न कृता स्यात् । परन्तु बहुधा तन्पुरुत्रा एदाहरणमिति बोध्यम् । क्षुल्लकेत्यादी कर्मधारयौ । उष्ट्रसादी कर्मधारय, पी उमासो वा । गोसाद इति । सदेर्घञन्तेन, रायता- " दग्णन्तेन वा समासः। तस्मादेव गिनौ - गोसादी । गोषु सीदति, गाः सादयतीति वा विप्रदः। इणुजादिभ्य इतीणन्तः सादिरत्र गृह्यते इत्यन्ये । कुरुगाई | एषां सप्तानामिति । पराणामिति क्वाचित्कोऽपपाठः, मनोरमाविरोधात् । सप्तापि