________________
५४२ ] सिद्धान्तकौमुदी। [समासस्वरसर्जनग्रहणं इन्द्वविशेषणम् । सकलो द्वन्द्व भाचार्योपसर्जनो यथा विज्ञायेत । तेनेह न । पाणिनीयदेवदत्तौ। प्राचार्येति किम्-छान्दसवैयाकरणाः । अन्तेवासीति किम्-प्रापिशलपाणिनीये शास्त्रे । ३७७१ कातकौजपादयश्च ।(६२-३७ ) एषां द्वन्द्वे पूर्वपदं प्रकृत्या । कातकोजपो । कृतस्येदं कुजपस्येदमित्यएणन्तावेतौ । सावर्णिमाण्डूकेयौ। ३७७२ महान्त्रीह्यपरालगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु । (६-२-३८) महछन्दः प्रकृत्या बीमादिषु दशसु । महाव्रीहिः । महापरातः । महागृष्टिः। महेष्वासः। महाइत्यणो 'न धचः प्राच्यभरतेषु' इति निषेधात् । द्वन्द्वविशेषणार्थमिति। न त्वन्तेवासिविशेषणार्थ, तस्य आचार्योपसर्जनत्वाव्यभिचारात् । किमर्थ पुनर्द्वन्द्व. विशेषणं विज्ञायत इत्याह सकलो द्वन्द्व । इत्यादि । छान्दसेति । 'छन्दोऽधीते' इत्यण । 'श्रोत्रियंश्छन्दोऽधीते' इति तु न, तत्र वाग्रहणानुवृत्तेः । प्रापिशलपाणिनीये इति । प्रापिशलस्यापत्यमापिशलिराचार्यः । तेन प्रोक्तमापिशलम् । 'इसश्च' इत्यण् । पाणिनिना प्रोकं पाणिनीयम् । द्वाच्छः । श्रापिशलं च पाणिनीयं च श्रापिशलपाणिनीये । कार्त। कुभूमिः तत्र जाताः कुजाः तान् पातीति कुजपः । कृतकुजपाभ्यामपत्ये ऋष्यण । सावर्णिरिषन्तः । माण्डुकेयशब्दो 'ढक् च मण्डूकात्' इति ढगन्तः । महावीहिरिति । 'आन्महतः-' इत्यात्वम् । महेष्वास इति । अत्रकारः 'म्वरितो वानुदात्ते पदादौ' इति स्वरितो वा । श्रादिपदेन महाजाबालः, महाभारतः, महाहैलिहिलः, महारौरवः, महाप्रवद्धः । महच्छब्दोऽन्तोदात्त वासिग्रहणम् । द्वन्द्वविशेषणमिति । न तु पूर्वपदविशेषणम् , व्याख्यानादिति भावः। तत्फलमाह सकल इति । छान्दसेति । छन्द अधीयते इत्याद्यर्थः । द्वन्द्वे किम् ? श्रापिशलप्रियः पाणिनीय आपिशलपाणिनीयः। कार्तकौ। अत्र गणे विभक्त्यन्तपाठो वचनविवक्षार्थः । कुभूमिः, तत्र जाताः कुजाः, तान् पाति कुजपः,कृतस्य कुजपस्य वाऽपत्यमित्यर्थे ऋष्यणन्तावेतौ-कार्तकोजपौः सावर्णिमाण्डू. केयौ, अवन्त्यश्मकाः, पैलश्यामकर्णेयाः,-अत्र बहुवचनमविवक्षितमिति वृत्तिकृत् । कपिश्यामकर्णेयाः । केचित्तु पैलश्यापर्णेयाः कपिश्यापर्णेया इति पठन्ति । शैतिकाक्षपाञ्चालेयाः । अत्रापि बहुत्वमविवक्षितम् । कटुकवार्चले याः । वार्धलेया इत्यन्ये पठन्ति । शाकलशुनकाः, शाकलशाणकाः, शाणकबाभ्रवाः, आर्चाभिमौद्गलाः, कुन्तिसुराष्ट्राः, वीतिसुराष्ट्राः । तरिडवतण्डाः । अविमत्त कामविद्धाः। बाभ्रवशालङ्कायनाः। बाभ्रव. दानच्युताः, कठकालापाः, कठकौथुमाः, कौथुमलौगाक्षाः, स्नीकुमारम् , मौदपैप्पलादाः, [ मौदपप्पलादाः ] । अस्य द्विःपाठः पत्ते समासान्तोदातत्वाय । वत्सजरन्तः, गौश्रुत.