SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता [ ५४१ 1 द्वीपे भवा द्वैप्याः । मैमेरपत्यं युवा भैमायनः । अन्धकवृष्णय एते न तु राजन्याः । राजन्यग्रहणमिहाभिषिक्तवंश्यानां क्षत्रियाणां ग्रहणार्थम् । नैते तथा । बहुवचनं किम् - संकर्षणवासुदेवौ । द्वन्द्वे किम्-वृष्णीनां कुमाराः वृष्णिकुमाराः । अन्धकवृष्णिषु किम् - कुरुपञ्चालाः । ३७६६ संख्या । ( ६-२-३५) संख्यावाचि पूर्वपदं प्रकृत्या द्वन्द्वे । द्वादश । त्रयोदश । स्त्रप्रसादेश श्राद्युद्रात्तो निपात्यते । ३७७० आचार्योपसर्जनश्वान्तेवासी । ( ६-२-३६) श्राचार्योपसर्जनान्तेवासिनां द्वन्द्वे पूर्वपदं प्रकृत्या । पाणिनीयरौढीयाः । छस्वरेण मध्योदात्तावेतौ । श्राचार्योप रिभ्यो नित्' इति सूत्रेण बाहुलकाच्त्रीकोऽपि निः तस्य नित्त्वं ह्रस्वत्वं चेति । द्वैप्या इति । 'द्विपादनुसमुद्रं यम्' । भैमेरपत्यमिति । भीमस्यापत्यम् 'अत इञ्' तदन्ताद् वृद्धाच्छः । ननु च राज्ञोऽपत्ये जातिग्रहणमिति वचनाद्राजन्यशब्दः क्षत्रियजातिवचनः । ततश्व द्वैप्यभैमायना इत्ययुक्तं प्रत्युदाहरणम् । तेषामपि क्षत्रियत्वादत ME राजन्यग्रहमित्यादि । अन्धकवृष्णीनां क्षत्रियत्वाव्यभिचाराद्राजन्यप्रहणमुक्तविशेषपरिग्रहार्थमिति भावः । एकादशेति । 'संख्याया अल्पीयस्याः -' इत्येकशब्दस्य पूर्वनिपातः । ' आन्महतः - ' इत्यत्र श्रादिति योगविभागात्प्रागेका दशभ्य इति निर्देशाद्वा श्रात्वम् । ' इग्भीकापाशल्यतिमर्चिभ्यः कन्' इति नित्त्वादेकशब्द आयुदात्तः । द्वादशेति । 'व्यष्टनः संख्यायाः -' इत्यात्वम् । त्रयोदशेति । 'त्रेस्त्रयः-' इति त्रय आदेशः । अन्तोदात्तो निपात्यत इति । इदं काशिकानुरोधेनोक्तम् । वस्तुतस्तु 'त्रयोदश च मे' इति लक्ष्यानुरोधादाद्युदात्तो निपात्यत इति बोध्यम् । आचार्योपसर्जन | आचार्य उपसर्जनं यस्य आचार्योपसर्जनः । अन्तेवासीति । अन्ते वसतीत्यन्तेवासी 'शयवासवासिष्वकालात्' इति सप्तम्या अलुक् । सूत्रे षष्ठी - बहुवचनस्य स्थाने प्रथमैकवचनम् । तदाह श्राचार्योपसर्जनान्तेवासिनां द्वन्द्वे इति । पाणिनीयरौढीया इति । वृद्धाच्छः । रौढिशब्दाद् ' इञश्च' 1 कचित्तु तथैव पाठः । लक्षणया । शिनित्वारोपेण | राजन्यग्रहणमिति । अन्धक वृष्णीनां॑ राजन्यत्वाऽव्यभिचारादित्यर्थः । सङ्ख्या । अत्र सर्वसूत्राद् द्वन्द्व इति वर्त्तते त्रयसादेश श्रादात्त इति । 'त्रयो' दश च मे' इत्यादावाद्युदात्तपाठादिति भावः । कचिद्वृत्तिस्तके, मून पुस्तके चाऽन्तोदात्त इति पाठो दृश्यते । तदा 'त्रयोदश च मे' इत्यादौ छान्दसत्वं बोध्यम् । आचार्योप | सूत्रे षष्ठीबहुवचनस्थाने प्रथमैकवचने । पाणिनीयरौढीया इति । पाणिने रौढेश्व छात्रा इत्यर्थः । तत्प्रोक्तमधीयते इत्यर्थो वा । पाणिनेर्गोत्रे नन्तत्वाऽभावाद्रो' ढौ 'न द्वयचः' इति निषेधाच 'इषवे'त्यय् न । तेन वृद्धाच्छ्रः । श्राचार्योपसर्जनग्रहणम् - अचार्योपसर्जनान्ते.
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy