________________
५४० ]
सिद्धान्तकौमुदी ।
[ समालस्वर
एते प्रकृत्या वर्ज्यमानवाचिन्यहोरात्रावयववाचिनि चोत्तरपदे । परित्रिगर्त वृष्टो देवः । प्रतिपूर्वाद्धम् । उपपूर्वाद्धम् । उपपूर्वरात्रम् । अपत्रिगर्तम् । उपसर्गा प्रायुदात्ताः । बहुव्रीहितत्पुरुषयोः सिद्धत्वादव्ययीभावार्थमिदम् । अपपर्योरेव वर्ज्यमानमुत्तरपदम् । तयोरेव वर्ज्य मानार्थत्वाद् अहोरात्रावयवा अपि वर्ज्यमाना एव तयोर्भवन्ति । वर्ज्येति किम् - प्रभिं प्रति । प्रत्यभि । ३७६८ राजन्यबहुवचनद्वन्द्वे ऽन्धकवृष्णिषु । ( ६-२-३४ ) राजन्यवाचिनां बहुवचनान्तानामन्धकवृष्णिषु वर्तमाने द्वन्द्वे पूर्वपदं प्रकृत्या | वाचकाः । शिनिवासुदेवाः । शिनिराशुदात्तो लक्षणया तदपत्ये वर्तते । राजन्येति किम्- हैप्यभैमायनाः ।
1
:
1
प्रकृत्या स्युः । परित्रिगर्तमिति । त्रिगर्त वर्जथित्वेत्यर्थः । ' अपपरी वर्जने' इति कर्मप्रवचनीयसंज्ञा । 'पञ्चम्यपाड् परिभिः' इति पञ्चमी । 'अपपरिबहिरञ्चवः पञ्चम्या ' इत्यव्ययीभावः । प्रतिपूर्वाह्नमिति । अहः पूर्वो भागः पूर्वाह: । 'श्रह्नोऽह्न एतेभ्यः' इत्यह्रादेशः । ‘अहोऽदन्तात्' इति णत्वम् । पूर्वाह्णं प्रति । 'लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावः । उपपूर्वाह्वमिति । पूर्वाह्नस्य समीपम् । ‘अव्ययं विभक्ति—' इत्यादिना सामीप्येऽव्ययीभावः । उपपूर्वरात्रमिति । रात्रेः पूर्वी भागः पूर्वरात्रः । 'ग्रहः सर्वैकदेश' इत्यत्र 'रात्र हाहा:-' इति पुंस्त्वम् । पूर्वरात्रस्य समीपमुपपूर्वरात्रम् । उपसर्गा । श्रायुदात्तानि पूर्वपदानि । सिद्धत्वादिति । 'बहुव्रीहौ प्रकृत्या पूर्वपदम्', 'तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीया कृत्याः' इत्यनेन । ननु किं पुनः कारणम् । श्रपपर्योरेव वर्ज्यमान उदाहृतो नेतयोस्तत्राह अपपर्योरिति । तेन त्रिगर्त वर्जयित्वेत्यर्थे उपत्रिगर्त प्रतित्रिगर्तमिति न भवति । ननु पूर्वाह्नं पूर्वरात्रं वर्जथित्वेत्यर्थे अपपूर्वाह्णे परिपूर्वाह्नम् अपपूर्वत्रं परिपूर्वरात्रमिति अहोरात्राद्यवयवा अपपर्योः कस्मान्नोदाह्रियन्ते इत्याअहोरात्रावयवा इति । वर्ज्यमाना इति । वर्ज्यमानप्रहणेनैव सिद्धत्वान्न पृथगुदाहृता इत्यर्थः । वर्जेति किमिति । वर्ज्यमानाहोरात्रावयवेषु किम् । अनि प्रतीति । 'लक्षणेनाभिप्रती-' इत्यव्ययीभावः । श्वाफल्क चैत्रका इति । श्वाफल्क चैत्र काभ्यामपत्येऽण् । शिनिराद्यदात्त इति । 'वहिधियुग्ला हावद्वन्द्वाऽव्ययीभावविषयाणि । परित्रिगर्तमिति । अत्र पर्यो: 'अपपरी वर्जने' इति कर्मप्रवचनीयत्वात्तद्योगे पञ्चमी, 'अपपरिबहि 'रित्यव्ययीभावः । प्रतिपूर्वाह्न - मिति । 'लक्षणेनाभिप्रती -' इति समासः । उपपूर्वेति । 'श्रव्ययं विभक्ती'ति समासः । वर्ज्यमाना एव तयोरिति । श्रतो न पृथगुदाह्रियन्ते इति भावः । अग्नि प्रतीति । इति विप्रहे 'प्रत्यभि शलभाः पतन्तीत्यादौ मा भूदित्यर्थः ।