SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ ५३८ ] सिद्धान्तकौमुदी। [समासस्वरशब्दोऽन्तोदात्तः । ३७६१ श्रादिः प्रत्येनसि। (६-२-२७) कुमारस्यादिरुवातः प्रत्येनसि परे कर्मधारये । प्रतिगतमेनोऽस्य प्रत्येनाः । कुमारप्रत्येनाः । ३७६२ पूगेष्वन्यतरस्याम् । (६-२-२८) पूगा गणास्तेषूकं वा । कुमारचाटकाः । कुमारजीमूताः । प्रायुदात्तस्वाभावे 'कुमार' ( ३७६० ) इत्येव भवति । ३७६३ इगन्तकालकपालभगालशरावेषु द्विगौ। (६-२-२६) एषु परेषु पूर्व प्रकृत्या। पश्चारत्नयः प्रमाणमस्य पश्चारनिः । दश मासान् भूतो दशमास्यः । पञ्च मासान् भूतः पश्चमास्यः। * तमधीष्ट-इत्यधिकारे । द्विगोर्यप् । पञ्चकपालः । पञ्चभगालः । पञ्चशरावः । (फि०) व्रः शब्दस्य समासे पुंवद्भावः । अन्तोदात्त इति । कुमार क्रीडायाम् । पचाद्यच् चित्स्वरः । अत्र 'कुमारः श्रमणादिभिः' इत्यस्यैव ग्रहणं प्रतिपदोक्तत्वात् । केचित्तु सर्वस्यैव कर्मधारयस्य ग्रहणमिच्छन्ति । तथा च कुमारब्राह्मण इत्यत्र पूर्वपदप्रकृतिस्वरत्वं मतभेदेन भवति । आदिः । आदिरिति षष्ठयर्थे प्रथमा । पूर्वत्र कुमारशब्दस्य प्रकृतिभावेन यः स्वरः प्राप्तः सोऽत्रादेर्भवतीति सूत्रार्थः । एवं स्थिते फलितमाह कुमारस्यादिरुदात्तः स्यादिति । पूगेषु । गणवाचिन्युत्तरपदे कर्मधारये कुमारस्यादिरुदात्तो वा स्यात् । कुमारचातका इति । चातकादयः पूग. शब्दास्तेभ्यः 'पूगाभ्यो ग्रामणीपूर्वात्' इति ज्यः । तस्य तद्राजस्य बहुघु-' इति लुक् । कुमारश्चेत्येव भवतीति । तत्र प्रतिपदोक्ताहणपक्षे समासान्तोदात्तःवम् । पञ्चारनिरिति । पक्षारत्नयः प्रमाणमस्येति तद्धितार्थे द्विगुः । 'प्रमाणे लो द्विगो. नित्यम्' इति मात्रचो लुक् । पञ्चसु कपालेषु संस्कृतः, पञ्चसु भगालेषु संस्कृतः, पञ्चसु शरावेषु उद्धृतः पञ्चकपालः, पञ्चभगालः, पञ्चशरावः। तद्धितार्थे द्विगुः। द्विगोलवेद । श्रादिः प्रत्ये। आदिरिति षष्ठ्यर्थे प्रथमा, कुमारशब्दः प्रकृतिस्वरेण यत्स्वरकः प्राप्तः स स्वर आदेरिति सूत्रार्थः । फलितमाह कुमारस्यादिरिति । एतेनोदात्ताधिकाराऽभावादिदमसङ्गतमित्यपास्तम् । पूगेष्व । पूगो गणः, तद्वाचिन्युत्तरपेद कर्मधारये कुमारस्याऽऽदिरुदत्तो वेत्यर्थः । कुमारश्चेत्येवेति । प्रति. पदोक्लपहणपक्षे समासान्तोदात्तत्वं बोध्यम् । पञ्चारनिरिति । तद्धितार्थे द्विगुः । 'प्रमाणे लो द्विगोनियमिति मात्रचो लोपः । 'पचारत्नयः' इत्यादौ अन्तरगत्वात्पूर्व स्वरः, प्रश्चाद्विभक्निनिमित्त कार्यम् । अव्यूहपरिभाषः तु नास्ति, अनित्या वेत्यसकदावेदितम् कि च स्थानिवत्वेन निमित्तविनाशाऽभवात्तत्सत्त्वेऽपि न दोषः । न च 'वर नेति निषेधः, लोपाऽजादेशस्यैव तेन निषेधात् । कालग्रहणेन कालवाचकानां प्रहणम् , तदाह दशमास्य इत्यादि। पञ्चकपाल इत्यादि । पञ्चसु करा
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy