SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् । सुबोधिनी-शखरसाहता । [५३७ पण्डित । कुशल । चपन । निपुण । ३७५६ श्रज्याऽवमकन्पापवत्सु भावे कर्मधारये । (३-२-२५) श्र ज्य कन् इत्यादेशवति भवमशन्दे पापवाचिनि चोत्तरपदे भाववाचि पूर्वपदं प्रकृत्या । गमनश्रेष्ठम् । गमनज्यायः । गमनावमम् । गमनकनिष्ठम् । गमनपापिष्ठम् । श्रेत्यादि किम्-गमनशोभनम् । भावे किम्गम्यतेऽनेनेति गमनम् । गमनं श्रेयो गमनश्रेयः । केति किम् -षष्ठीसमासे मा भूत् । ३७६० कुमारश्च। (६-२-२७) कर्मधारये। कुमारश्रमणा । कुमार हारे स्तुतौ च । मन्ताहः । पण्डा बुद्धिः सा संजाताऽस्येति तारकादित्वादितच् । एव. मुक्तम् । कुशान् लातीते कुशलः। 'प्रातोऽनुपसर्गे' इति कः कृत्स्वरेणान्तोदात्तः । चुप मन्दायां गतौ । प्रस्मात् 'चुपेरच्चोपधायाः' इति कलप्रत्ययः। तत्र 'वृषादि. भ्यश्चित्' इत्यतश्चिदिति वर्तनादन्तोदात्तः । पुण कर्मणि शुभे। 'इगुपधज्ञाप्रीकिरः कः' । थथादिस्वरेणान्नोदात्तः । श्रज्या । श्रज्यकनामादेशानामुत्तरपदत्वासंभवात्सा. मर्थ्यात्तद्वदुत्तरपदं गृ त इत्याह इत्यादेशवतीति । इष्ठेयसुनोः 'प्रशस्यस्य श्रः', 'ज्य च', 'युवाल्पयोः कनन्यतरस्याम्' । गमनश्रेष्ठमित्यादि । मयूरव्यंसकादित्वाद्राज दन्तादित्वात विशेषणस्य परनिपातः। पापिष्ठमिति। विन्मतोर्नु । उदाहरणे नपुंसके भाव क्तः । 'ल्युट च' इति भावे ल्युट् । तदन्तान्येतानि पूर्वपदानि लित्स्वरेणाद्युदात्तानि । गम्यतेऽनेनेति । 'करणाधिकरणयोश्च' इति करणे ल्युट । केति किमिति । कर्मधारय इति किमर्थमित्यर्थः । कुमारश्च । कुमारशब्दः पूर्वपदं प्रकृतिस्परं स्यात् । कुमारश्रमणेति । कुमारी श्रमणा कुमार. श्रमणा । 'कुमारः श्रमणादिभिः' इति समासः । लिङ्गविशिष्टपरिभाषया कुमारी व्यक्लो' गतिखरेणायु दत्तः, सम्पन्नोऽन्तोदात्तः, पटुर्नित्त्वादाधु दात्तः, पण्डितकुशलावन्तोदात्तौ, चपलनिपुणावप्येवम् । श्रज्याऽवम । अत्र श्रज्यकनामुत्तरपदत्वाऽसम्भवेन सामर्थ्यात्तद्वतो ग्रहणम् । 'वदिति तु पापेनैव सम्बध्यते । एवञ्च 'श्रज्यकनित्यादे रावति, अवमशब्दे, पापशब्दवति चोत्तरपदे' इति पाठः । पाठान्तरन्तु प्रामादिकम् । गमनश्रेष्ठमित्यादौ मयूरव्यंसकादित्वाद्विशेषणस्य पर. निपातो, राजदन्तादित्याद्वा । गमनपापिष्ठमिति । पापवच्छब्दादिष्ठन् । विन्मतोर्लुक् । अन्यथा पापशब्दस्य गुणोपसर्जनद्रव्यवाचित्वाऽभावात्ततः स न स्यादिति बोध्यम् । कुमारश्च । कुमारशब्दः पूर्वपदं तथा कर्मधारये इत्यर्थः । अत्र 'कुमारः श्रमणादिभिरिति समासस्यैव प्रहणम् , प्रतिपदोक्तत्वादिति केचित् । अन्ये तु सर्वकर्मधारयग्रहणम् , एवञ्च 'कुमारब्राह्मणः' इत्यादावपि प्रवर्तत इत्याहुः। तत्त्वमीश्वरो
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy