________________
५३६ ]
सिद्धान्तकौमुदी । [ समासस्वर
प्रकृत्या । मद्रसविधम् । गान्धारसनीडम् । काश्मीरसमर्यादम् । मद्रसवेशम् । मद्रसदेशम् । सामीप्ये किम् - सह मर्यादया समर्यादं क्षेत्रम् । चैत्रसमर्यादम् । ३७५८ विस्पष्टादीनि गुणवचनेषु । ( ६-२-२४) विस्पष्टकटुकम् | विस्पष्टशब्दो ‘गतिरनन्तरः' ( ३७८३ ) इत्याद्युदात्तः । विस्पष्टेति किम्- परमलवणम् । गुणेति किम् - विस्पष्टब्राह्मणः । विस्पष्ट । विचित्र व्यक्त | संपच । सामीप्यार्थेषु सविधादिषूत्तरपदेषु पूर्वपदं प्रकृत्या तत्पुरुषे । मद्रसविधमिति । सर्वत्रोदाहरणे षष्ठीसमासः । मद्रः रगन्तेनोदात्तः । गान्धारिः । 'कर्दमादीनां च इत्याद्युदात्तो वा । काश्मीरो 'लघावन्ते-' इति मध्योदात्तः । सविधादीनां सह विधया इत्येवमादिका व्युत्पत्तिरेव केवलम् । समीपवाचिनस्त्वेते समुदायाः । मद्रादीनां सविधं समीपमित्यर्थः । समर्यादमिति । 'वोपसर्जनस्य' इति सहस्य सादेशः । चैत्रसमर्यादमिति षष्ठीसमासः । सविधादिषु किम् । मद्रसमीपम् । विस्पष्टा । गुणवचनेषु परेषु विस्पष्टादीनि पूर्वपदानि प्रकृत्या स्युः । विस्पष्टकटुकमिति । पश बाधनस्पर्शनयोरित्यस्य यन्तस्य निष्ठाय ' वा दान्तशान्त-' इति स्पष्टशब्दो निपातितः । तस्य विशब्देन गतिसमासः । विस्पष्टं कटुकमिति विग्रहः । विस्पष्टादीनि शब्दप्रवृत्तिनिमित्तस्य विशेषणानि न द्रव्यस्य । कटुकादिशब्दैर्गुणवदद्रव्यमभिधीयते इति सामानाधिकरण्याभावात्कर्मधारयाभावे सुप्सुप्पेति समासः । विचित्रेत्यादि । चित्र चित्रीकरणे चुरादिण्यन्तादेरच् । विशेषेण चित्रं विचित्रं प्रादिसमासः 'तत्पुरुषे तुल्यार्थ -' इत्यव्ययपूर्वपदप्रकृतिस्वरेणायुदात्तः । विती संज्ञाने निष्ठा । विगतं चित्रमस्य इति विचित्रः । 'बहुव्रीहौ प्रकृत्या पूर्वपदम्' इत्यायुदात्तः । अज्जू व्यक्तत्यादिषु । तस्य विपूर्वस्य निष्ठायां गतिवरे 'उदात्तस्वरितयो:--' इति स्वरितादिः । पदेः कर्तरि क्तः । थाथादिस्वरेणान्तोदात्तः । गतिस्वरस्तु न । कर्मणीति तत्र वर्तते । श्रयं कर्तरि क्तः । 'फलिपाटिनमिमनिजनां कुकपटिनाकिघतश्च' इत्युप्रत्ययान्तः पटुशब्दः । तत्र निदिव्यधिकारादायुदात्तः । पडि गतौ । क्तः प्रत्ययस्वरः । उणादिवृत्तौ तु पण व्यव
सनीड। सामीप्यार्थेष्वेतेषूत्तरपदेध्वित्यर्थः । सविधादयः समीपे रूढाः । मद्रो गन्तोऽन्तोदात्तः । गान्धारिः-‘कर्दमादीनाञ्चेत्याद्युदात्तो, मध्योदात्तो वा । कश्मीरो- 'लघावन्ते-' इत्याद्युदात्तः, मध्योदात्तो वा । सविधादिषु किम् ? मद्रसमीपम् । विस्पष्टादीनि । गुणवचनेषु परेषु विस्पष्टादीनि प्रकृत्येत्यर्थः । अत्र विस्पष्टादीनि प्रवृत्तिनिमित्तस्य विशेषणानि, न द्रव्यस्य । कटुकादिशब्दैर्गुणवद्द्द्रव्यमभिधीयत इति सामानाधिकरण्याऽभावात् कर्मधारयाऽभावेऽपि मयूरव्यंसकादित्वात्समासः । तत्र विस्पष्टे-गतिस्वरः, विचित्रेऽव्ययस्वरः, विचित्ते - बहुव्रीहिखरः ।