________________
५३४ ]
सिद्धान्तकौमुदी ।
[ समासस्वर
1
निश्वात् । नपुंसके किम् - कुड्यच्छाया । ३७४६ सुखप्रिययोर्हिते । ( ६-२१५ ) एतयोः परयोर्हितवाचिनि तत्पुरुषे तथा । गमनप्रियम् । गमनसुखम् । गमनशब्दे लिस्स्वरः । हिते किम् - परमसुखम् । ३७५० प्रीतौ च । ( ६२ - १६ ) प्रीतौ गम्यायां प्रागुक्रम्। ब्राह्मसुखं पायसम् । छात्रप्रियोऽनध्यायः । ब्राह्मणच्छा शब्दौ प्रत्ययस्वरेणान्तोदात्तौ । प्रीतौ किम् - राजसुखम् । ३७५१ स्वं स्वामिनि । ( ६-२- १७ ) स्वामिशब्दे परे स्ववाचि पूर्वपदं तथा । गोस्वामी । स्वं किम् - परमस्वामी ३७५२ पत्यावैश्वर्ये । ( ६-२-१८) दमूना गृपतिर्दमे । ३७५३ न भूवाक्चिद्दिधिषु । ( ६-२-१९ ) पतिशब्दे परे ऐश्वर्यवाचिनि तत्पुरुषे नैतानि प्रकृत्या । भुवः पतिर्भूपतिः । वाक्पतिः । दायुदात्तस्तदाह । इषुशब्द इति । गमनसुखमिति । समानाधिकरणसमासो मयूरव्यंसकादिर्वा । लित्स्वर इति । गमनशब्दो ल्युडन्तः 'लिति' इति सूत्रे -
दात्तः । प्रागुक्तमिति । सुखप्रिययोः परयोस्तत्पुरुषे पूर्वपदं प्रकृतिस्वरं स्यादित्यर्थः । योगविभागो यथासंख्यनिवृत्त्यर्थः । ननु 'सुखप्रिययोः' इत्येतावत्पूर्वसूत्रं कृत्वा 'हिते च' इति वक्तव्यम् । तत्राद्ये सूत्रे सुखप्रिययोः प्रीत्यव्यभिचारादेव प्रीतौ गम्यमानायां भविष्यतीति चेत् । सत्यम् । प्रीतिप्रहणं तदतिशयप्रतिपत्त्यर्थम् । ब्राह्मणच्छात्र शब्दाविति । ब्रह्मणोऽपत्यमित्यण | 'ब्राह्मणोऽजाती' इति जातौ टिलोपाभावेऽन्निति प्रकृतिभावः । छात्रशब्दः 'छत्रादिभ्यो णः' इति णप्रत्ययान्तः । पत्या | ऐश्वर्यार्थे पतिशब्दे परे पूर्वपदं प्रकृतिस्वरं स्यात् तत्पुरुषे | गृहपतिरिति षष्ठीसमासः । 'गेहे कः' इति कप्रत्ययान्तो गृहशब्दः प्रत्ययस्वरेणान्तोदात्तः । न भू । भ्वादीनां समाहारद्वन्द्वे नपुंसकत्वम् । ह्रस्वत्वम् । एतानीति । भूवाक्चिद्दिधिषु एतानीत्यर्थः । न प्रकृत्येति । पूर्वेण प्राप्तः प्रतिषिध्यते । भूपतिरित्यादि । षष्ठीसमासा एते । तत्र भ्वादयस्त्रयः क्वित्रन्ताः । दिधिपूशब्दः 'अन्दूहम्भूजम्बूक फेलूसुखप्रिययोर्हिते । यदायत्यां प्रीतिकरं तद्धितम् । गमन सुखमित्यादि कर्मधारयः । यमनस्य विशेषणत्वात्पूर्वनिपातः, मयूरव्यंसकादित्वाद्वा । प्रीतौ च । सुखप्रिययोः प्रीत्यव्यभिचारादिह यत्प्रीतिग्रहणं तत्प्रीत्यतिशयप्रतिपत्त्यर्थम् | योगविभागो यथा - सङ्ख्यनिवृत्त्यर्थः । पत्यावैश्वर्ये । ऐश्वर्यवाचिपतिशब्दे उत्तरपदे पूर्वपदं तथेत्यर्थः । गृहपतिरिति । 'गेहे कः' इति कप्रत्ययान्तो गृद्दशब्दोऽन्तोदात्तः । दमे इति । गृद्दे इत्यर्थः । ऐश्वर्ये किम् ? वृषलीपतिर्विप्रः । तद्धर्तेत्यर्थः । न भूवा । सूत्रे समाहारद्वन्द्वः । भूपतिरित्यादयः षष्ठीतत्पुरुषा श्रन्तोदात्ताः । त्रयः कियन्ताः, अन्त्य
1