SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता । [ ५३३ I प्राय सप्तसमः । द्विगौ किम्-ग्रीहिप्रस्थः । प्रमाणे किम् - परमसप्तसमम् । ३७४७ गन्तव्यपरायं वाणिजे | ( ६-२-१३) वाणिजशब्दे परे तत्पुरुषे गन्तव्यवाचि पण्यवाचि च पूर्वपदं प्रकृतिस्वरम् । मद्रवाणिजः । गोवाणिजः । सप्तमीसमासः । मद्रशब्दो रक्प्रत्ययान्तः । गन्तव्येति किम् - परमवाणिजः । ३७४८ मात्रोपशोपक्रमच्छाये नपुंसके । ( ६-२-१४ ) मात्रादिषु परतो नपुंसकवाचिनि तत्पुरुषे तथा । भिक्षायास्तुल्यप्रमाणं भिक्षामात्रम् । भिक्षाशब्दो 'गुरोश्च हल: ' ( १२८० ) इत्यप्रत्ययान्तः । पाणिभ्युपज्ञम् । पाणिनिशब्द श्राद्युदात्तः । नन्दोपक्रमम् । नन्दशब्दः पचाद्यजन्तः । इषुच्छायम् । इषुशब्द प्रायुदात्तो ‘यतोऽनावः' इत्याद्युदात्तः । परमसप्तसममिति । सप्तानां समानां समाहारः सप्तसमं समाहारद्विगुः । पात्रादित्वात् स्त्रीत्वाभावः । गन्तव्यपण्यम् । वणिगेव वाणिजः । प्रज्ञादित्वादण् । मद्रवाणिज इति । मद्रेषु गत्वा व्यवहरतीत्यर्थः । गोवाणिज इति । गमेर्डोः । श्रन्तोदात्तोऽयम् । सप्तमीसमास इति । सप्तमीति योगविभागाद् मद्रवाणिजेत्यत्र षष्ठीसमासः । रक्प्रत्ययान्त इति । 'स्फायितञ्चि' इति विहितो रक् तदन्तादित्यर्थः । प्रत्ययस्वरेणान्तोदात्तोऽयम् । मात्रो । तथेति । पूर्वपदं प्रकृतिस्वरं स्यादित्यर्थः । भिक्षाशब्दोऽप्रत्ययान्तोदात्तः । मात्रशब्दस्तु तुल्यपर्यायो वृत्तिविषये तुल्यप्रमाणे वर्तते भिक्षायास्तुल्यप्रमाणमित्यस्वपदविग्रहः षष्ठीतत्पुरुषः । तदाह भिक्षाया इति प्राणिन्युपशमिति । उपज्ञायत इति उपज्ञा । 'श्रतश्चोपसर्गे' कर्मण्यङ् । पाणिनिशब्द इञन्तत्वादायुदात्तः । तस्य उपज्ञा इति षष्ठीसमासः । 'उपज्ञोपक्रमं तदाद्याचिख्यासायाम्' इति नपुंसकता । नन्दोपक्रममिति । षष्ठीसमासः । अत्रापि पूर्ववन्नपुंसकता । उपक्रम्यते इति कर्मणि घञ् 'नोदात्तोपदेशस्य' इति वृद्धिप्रतिषेधः । इषुच्छायमिति । इषूणां छायेति तत्पुरुषः । 'छाया बाहुल्ये' इति नपुंसकता । 'इषः किञ्च' इत्युप्रत्ययान्त इषुः तत्र निदधिकारापरमसप्तसममिति । समाहारे द्विगुः, उपसर्जनत्वाद्ध्रस्वः । पात्रादित्स्त्रीत्वाऽभावः । 'परमसप्तसम' इति त्वपपाठः । वाणिज इति । वणिगेव वाणिजः । प्रज्ञादित्वा - दण् । सप्तमीसमास इति । इदं च ' मद्रवाणिजः' इत्यत्र । मद्रेषु गत्वा व्यवहरतीत्यर्थः । न चैत्रं सप्तमी पूर्वपदप्रकृतिस्वरेणैव सिद्धे गन्तव्य ग्रहणमत्र व्यर्थ - मिति वाच्यम्, 'सुप्सुपे' ति लब्धस्य समासस्य प्रतिपदोक्लत्वाऽभावादिति भावात् । षष्ठीसमासार्थमावश्यकस्यपरत्वात्तत्रापि प्रवृत्तिरित्याशय इत्यन्ये । मात्रोपक्षो । नपुंसके इति । नपुंसकवाचिनि तत्पुरुषे इत्यर्थः । तुल्यप्रमाणमिति । मात्रशब्दो वृत्तिविषये तुल्यप्रमाणे वर्तते इति भावः । श्रस्वपदविप्रहः षष्ठीतत्पुरुषः ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy