________________
५३२ ] सिद्धान्तकौमुदी। [समासस्वररिककषायम् । कठशम्नः पचायजन्तः । तस्माद् 'वैशम्पायनान्तेवासिभ्यश्च' (१४८४ ) इति णिनेः 'कठचरकाल्लुक्' (१४८७ ) इति लुक् । द्वारि नियुक्त इति ठक्यन्तोदात्तो दौवारिकशब्दः । जातो किम्-परमाध्वर्युः । ३७४५ सदृशप्रतिरूपयोः सादृश्ये । (६-२-११) अनयोः पूर्व प्रकृत्या। पितृसरशः । सारश्ये किम्-परमसरशः। समासार्थोऽत्र पूज्यमानता न साहश्यम् । ३७४६ द्विगौ प्रमाणे । (६-२-१२) द्विगावुत्तरपदे प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरम् । प्राध्यसप्तसमः । सप्त समाः प्रमाणमस्य । प्रमाणे लोद्विगो. नित्यम् । इति मात्रचो लुक् । प्राध्यशब्द अायुदात्तः । प्रायश्वासी सप्तसमक्ष
समासोऽयम् । दौवारिककषायमिति । षष्ठीसमासः । सदृश । सादृश्यवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या एतयोरुत्तरपदयोः। पितृसदृश इति । पितृमातृशब्दावुणादितृजन्तौ चित्स्वरेणान्तोदात्तौ । नन्वत्र 'पूर्वसदृशसमानार्थ-' इति तृतीयासमासे कृते 'तत्पुरुषे तुल्यार्थ-' इत्येव सिद्धम् । न च तुल्यार्थयोगे षष्ठया अपि विहितत्वेन षष्ठीसमासार्थमिदमिति वाच्यम् । तत्रानभिधानात्षष्ठीसमासो नेत्यपि सुवचत्वादिति चेन्मैवम्। अलुक्समासानुरोधेन षष्ठीसमासस्वीकारस्यावश्यकत्वात् । तद्यथा । दास्याः सदृशो वृषल्याः सदृश इति । 'षष्टया आक्रोशे-' इत्यलुक् । दासीशब्दो 'दंसेप्टो न श्रा च' इति दंसेष्टप्रत्ययः नकारस्य चाकारः । प्रत्ययस्वरेण दासशब्द अन्त उदात्तः । टित्त्वान्डीप् । 'यस्य-' इति लोपः । 'अनुदात्तस्य च यत्र' इति डीप उदात्तत्वम् । वृषलशब्दाज्जातिलक्षणो डीए । उभयत्रापि 'उदात्तयणो हल्पूर्वात्' इति विभक्तिरुदात्ता । नन्वेवं तृतीयासमासविधायके 'पूर्वसदृश-' इति सूत्रे सदृशप्रहणं मास्तु सर्वत्र षष्ठीसमासोऽस्तु इति चेन्मैवम् । यत्र षष्ठयों नास्ति तदर्थ सदृशप्रहणम् । विद्यया सहशो विद्यासदृश इति । अन्यो देवदत्तादिरत्र प्रतियोगी। प्राच्यशब्द श्राद्युदात्त इति । 'युप्रागपागुदक्प्रतीचो यत्' इति यदन्तत्वाद् रिति । कर्मधारयोऽयश्चरणविशेष रूढः । दौवारिककषायमिति। रूढिशब्दोऽयम् । कषायोऽर्दादिः । सादृश्ये इति । सादृश्यवाचिनि तत्पुरुषे इत्यर्थः । पितृ. शब्दोऽन्तोदात्तः । तृजन्तत्वात् । तृतीयासमासे 'तत्पुरुषे तुल्यार्थे'त्यनेनैव सिद्ध इदं 'दास्याः सदृश' इत्यलुक्समासार्थम् । 'पितृसदश-' इत्यादौ षष्ठीसमासस्तु अनभिधानाअत्यपि वक्तुं शक्यम् । एवञ्च दासीशब्दस्याऽन्तोदात्ततया 'उदात्तयणः' इति विभक्तिरुदात्तेत्यादि 'पूर्वसदृशे'त्यत्र निरूपितम् । न सादृश्यमिति । यत्र हि प्रतियोगि. विशेषसमर्पणार्थ पर्व पदं तत्रैवेदमिति सादृश्यग्रहणसामर्थ्यादाश्रीयत इति भावः ।