________________
प्रकरणम् ]
सुबोधिनी - शेखर साहिता ।
[ ५३१
पूर्वपदं प्रकृत्या । कुटीनिवातम् । कुड्यनिवावम् । कुटीशब्दो गौरादिकीषन्तः । कुड्यशब्दो ड्यगन्तः । यगन्त इत्यन्ये । वातत्राणे किम्-राजनिवाते वसदि । निवातशब्दोऽयं रूढः पार्श्वे । ३७४३ शारदे ऽनार्तवे । ( ६-२-९) ऋतौ भवमार्तवम् । तदन्यवाचिनि शारदशब्दे परे तत्पुरुषे पूर्वपदं प्रकृतिस्वरं स्यात् । रज्जुशारदमुदकम् । शारदशब्दो नूतनार्थः । तस्यास्त्र पदविग्रहः । रज्जोः सच उद्धृतम् । रज्जुशब्दः । ( उ ) सृजेरसम्च । इत्याद्युदात्तो व्युत्पादितः । अनार्तवे किम् - उत्तमशारदम् । ३७४४ श्रध्वर्युकषाययोर्जातौ । ( ६-२-१० ) एतयोः परतो जातिवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरम् । कठाध्वर्युः । दौवा
"
षष्ठीसमासः । निवाते । निवातशब्दे परे वातत्राणवाचिनीति । वातत्राणार्थे निवातशब्दे परे इत्यर्थः । वातस्याभावो निवातमित्यव्ययीभावः । निरुद्धो वातोऽस्मिन्निति बहुव्रीहिर्वा । तत्र कुडयादयो वर्तमानाः समानाधिकरणा निवातशब्देन समस्यन्ते । कुटी एव निवातं कुटीनिवातम् । कुडय एव निवातं कुडघनिवातम् । ड्यगन्त इति । कवतेर्च्चक् डकारस्येत्संज्ञा न भवति । गुणप्रतिषेधार्थात्ककारानुबन्धात् । यगन्त इत्यन्ते इति । ( ते तु कवतेर्व्यन्निति सूत्रमधीयते ) शारदे । नूतनार्थ इति । अव्युत्पन्न इत्यर्थः । रज्जोः सद्य उद्धृतमिति । रज्जुबद्धपत्राधारे रज्जुशब्दः । इदानीमेव कूपादुद्धृतं नूतनं जलमित्यर्थः । सृजेरसुम्चेति । 'स्कन्देः सलोपश्च' इत्यतः सलोप इति वर्तते 'भृमृशी' इत्यत उरिति । 'धान्ये नित्' इत्यतो निदिति । सृजेरुः स्यात्स च नित् धातोरसुगागमः सलोपश्चेत्यर्थः । तत्र सृजेरन्त्यादचः परेऽसुमि सलोपयणादेशेऽपुम्सकारस्य जश्त्वे च रज्जुरिति भवति । द्युदात्त इति । प्रत्ययस्य नित्त्वान्नित्स्वरेण । उत्तमशारदमिति । शरद ऋतौ भवं शारदम् । अध्व । कठाध्वर्युरिति । अध्वरं यज्ञं यातीत्यध्वर्युः ऋत्विग्विशेषः । कठेन प्रोक्तं छन्दोऽधीते कठः । कठशब्दादराणन्ताद् णिनिप्रत्ययः तस्य लुक् । अध्येत्रणस्तु 'प्रोक्ताल्लुक्' इति लुक् । विशेषण
यान्त इत्यन्ये । वातत्राणे इति । वातत्राणार्थे तत्पुरुष इत्यर्थः । निवाते इति । वाताऽभावो निवातम्, निरुद्धो वातो यस्मिन्निति वा । कुटीनिवातमिति । श्रये कुत्र्यादिहेतुकेऽर्थे वर्तमानाः कुव्यादयो निवातशब्देन समानाधिकरणाः, अन्त्ये तु स्पष्टमेव तत् । राजनिवाते इति । राजपार्श्वे इत्यर्थः । षत्रीसमासोऽयम् । रज्जुशारदमिति । कर्मधारयः । रज्जुशब्दो रज्जुवद्धपात्रोद्धृते वर्तते । इदानी. मेव कूपादुद्धृतम् । नवञ्जलमित्यर्थः । श्राद्युदात्त इति । 'सृजेरसुम् सलोपश्चे 'त्यत्र ‘उर्नि’दित्यधिकारात् । उत्तमशारदमिति । शरदि भवमित्यर्थः । कठाध्वर्यु.