________________
५३० ]
सिद्धान्तकौमुदी ।
[ समासस्वर
दायादे । ( ६-२-५ ) तत्पुरुषे प्रकृत्या । धनदायादः । धनशब्दः क्युप्रस्थयान्तः प्रत्ययस्वरेणायुदात्तः । दायाद्यं किम्-परमदायादः । ३७४० प्रतिबन्धि चिरकृच्छ्रयोः । ( ६-२-६ ) प्रतिबन्धवाचि पूर्वपदं प्रकृत्या एतयोः परतस्तत्पुरुषे । गमनचिरम् । व्याहरणकृच्छ्रम् | गमनं कारणविकलतया चिरकालभावि कृच्छ्रयोगि च प्रतिबन्धि जायते । प्रतिबन्धि किम् - मूत्रकृच्छ्रम् । ३७४१ पदेऽपदेशे । ( ६-२-७ ) व्याजवाचिनि पदशब्द उत्तरपदे प्रकृत्या तत्पुरुषे । मूत्रपदेन प्रस्थितः । उच्चारपदेन । मूत्रशब्दो घञन्तः । उच्चारशब्दो घञन्तः 'थाथ' (३८७८) आदिस्वरेणान्तोदात्तः । अपदेशे किम् - विष्णुपदम् । ३७४२ निवाते वातत्राणे । ( ६-२-८ ) निवातशब्दे परे वातत्राणवाचिनि तत्पुरुषे
शब्दे परे दायाद्यवाचि पूर्वपदं प्रकृतिस्वरं स्यात् । क्यु प्रत्ययान्त इति । 'कृपूजि - मन्दिनिधानः क्युः' इति विहितः । परमदायाद इति । अत्र समासान्तोदात्तत्वमेव । प्रतिबन्धि | कार्यसिद्धिं प्रतिबनातीति प्रतिबन्धि | आवश्यके णिनिः । गमनचिरम् । व्याहरणकृच्छ्रमिति । गमनव्याहरणशब्दौ ल्युडन्तौ । तयोर्लित्स्वरः । अत्र विशेषणसमासः । ननु सामानाधिकरण्ये सतिविशेषणसमासो भवति । न चेह तदस्ति । गमनशब्दस्य गतिवाचित्वाच्चिरशब्दस्य कालवाचित्वात् । नैष दोषः । चिरकालवाचिनि गमनेऽत्र चिरशब्दो वर्तते, गमनमत्र विशेष्यं तद्विशेषणे तु चिरकृच्छे तत्र विशेष्यस्य पूर्वनिपातनार्थं मयूरव्यंसकादित्वमप्येष्टव्यम् । पूर्वपदस्य प्रतिबन्धित्राचित्वमुपपादयति । गमनमित्यादि । कारणवैकल्याद्धि चिरकालभावि गमनं कार्यसिद्धेः प्रतिबन्धि जायते । कृच्छ्रयोग वा कृच्छ्रं दुःखं तद्योगि वा कार्यसिद्धेः प्रतिबन्धि जायते । मूत्रकृच्छ्रमिति । षष्ठीसमासः । पदेऽपदेशे । अपदेशो व्याजः । ' व्याजोऽपदेशो लक्ष्यं च इत्यमरात्तदाह व्याजवाचिनीति | उच्चार पदेनेति । उच्चारः पुरीषक्रिया | विष्णुपदमिति ।
?
'खामीश्वरे'ति संबन्धसामान्यषष्ठ्यन्तेन समासः । परमदायाद इति । अत्र समा सान्तोदात्तत्वमेव । गमनचिरमिति । विशेषणसमासः, ल्युडन्तस्य भाववाचि• त्वात् । चिरकृच्छ्रशेः कालकष्टवाचित्वेऽपि प्रकृते चिरकालभाविनि, कृच्छ्रयोगिनि चार्थे चिरकृच्छ्रर्वर्तनात्सामानाधिकरण्यम् । एवञ्च चिरकृच्छ्रगे: पूर्वनिपातः प्राप्नोतीत्यतो मयूरव्यंसकादिसमासोऽत्रे याहुः । षत्रीसमास इत्यन्ये । प्रतिवन्धि जायत इति । कार्यसिद्धेः प्रतिबन्धकं जायत इत्यर्थः । प्रतिबन्धिशब्दे1 ६- आवश्यके णिनिः । सूत्रकृच्छमिति । षष्ठीसमासोऽयम् । मूत्रपदेनेति । मूत्रमिषेणेत्यर्थः । उच्चारः- पुरीषक्रिया । घञन्त इति । मूत्रशब्दः 'सिविमन्योष्टेरू च'ति ट्रन्प्रत्य