________________
प्रकरणम् ]
सुबोधिनी - शेखरसहिता
[ ५२६ न्युत्तरपदे एतवर्जित वर्णवाचि पूर्वपदं प्रकृत्या तत्पुरुषे । कृष्णसारङ्गः । लोहितकल्माषः । कृष्णशब्दो नक्प्रत्ययान्तः । लोहितशब्द इतश्चन्तः । वर्णः किम्परमकृष्णः । वर्णेषु किभू - कृष्णतिलाः । श्रनेते किम् - कृष्णैतः । ३७३८ गाध. लवणयोः प्रमाणे । ( ६-२-४ ) एतयोरुत्तरपदयोः प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या स्यात् । धरित्रगाधमुदकम् । तत्प्रमाणमित्यर्थः । गोलवणम् । यावद्ववेदीयते तावदित्यर्थः । श्ररित्रशब्द इत्रान्तो मध्योदात्तः । प्रमाणमियत्ता परिच्छेदमात्रम्, न पुनरायाम एव । प्रमाणे किम्-परमगाधम् । ३७३६ दायाद्यं न, तत्साहचर्यात्पूर्वपदेऽपि स्वरूपग्रहणं न तदाह वर्णवाचिनीत्यादि । कृष्णशब्दो नक्प्रत्ययान्त इति । 'वृषेर्वर्ण-' इति विहितो यो नक् तदन्त इत्यर्थः । कृष्णशब्दः ‘कृष्णस्यामृग ख्या चेत्' इत्यन्तोदात्तो वेदे । भाषायां तु 'वर्णानां तणति नितान्तानाम्' इत्याद्युदात्तः । इतन्नन्त इति । 'रहे रश्च लो वा' इति इतन्प्रत्ययान्तो नित्स्वरेणायुदात्तः । कृष्णतिला इति । 'वर्णो वन' इति प्रतिपदोक्तः समास इह गृह्यते, तेनैव सिद्धे वर्णग्रहणं चिन्त्य प्रयोजनम् । गाध । अरित्रगाधमिति । श्ररित्रं नौकाष्ठं तस्य गाधं स्पृश्यमानं तलम् गाध्यत इति गाधः । गाधृ प्रतिष्ठायां कर्मणि घञ् । अर्धर्चादित्वात् क्लीवत्वम् । गोलवणमिति । षष्ठीसमासः । गोशब्दो 'गमेर्डो:' इति डोप्रत्ययान्तोऽन्तोदात्तः । इत्रान्त इति । 'अर्तिलूधूसूखनसइचर इत्रः' इति विहितः । मध्योदात्त इति । प्रत्ययस्वरेण । इयत्ता परिच्छेदमात्रमिति । इयत्तायाः परिच्छित्तिरित्तापरिच्छेदः । क्रियाशब्दो ऽत्र प्रमाणशब्दो गृह्यते न पुनरायाममात्रे रूढ इत्यर्थः । दायाद्यम् । दातव्यो दायोंशः । दायमादत्ते दायादः । मूलविभुजादित्वात्कः । दायादस्य भावो दायाद्यम् । दायस्य दानं तत्संबन्धो वा । इह तु लक्षणया श्रादीयमाने दाय एव दायाद्यशब्दो वर्तते दायाद
1
.
'कृचतुल्ये 'ति समासः । कृत्यांशे लक्षणप्रतिपदोक्तपरिभाषा न प्रवर्तते इति कश्चित् । कृष्णसारङ्ग इति । कृष्ण-लोहितौ 'वर्णानान्तो' त्यायुदात्तौ । वेदे तु 'कृष्णस्याऽभृगाख्या च'दिति कृष्णोऽन्तोदात्तः । श्रत्र सूत्रे एवं वर्णग्रहणं व्यर्थम्, 'वर्णो वर्णेनेति प्रतिपदोक्कसमासप्रहणादित्याहुः । अरित्रगाधमिति । श्ररित्र - नौकाष्ठम्, तस्य गाधम् । तेन स्पृश्यमानतलमित्यर्थः । षष्ठीसमासा एते । न पुनरायाम एवेति । स च तिर्यगूर्धोऽवरो वे अन्यत् । दायाद्यम् । दीयते स दार्योऽशः, तमादत्ते दायादः, तस्य भावो दायाद्यं = दाय ऽऽदानम्, तत्संबन्धो वा । प्रकृते तु लक्षणया दायाद्यशब्द आदीयनाने दाये एव वर्तते । यद्वा दायादमर्हतीत्यर्थे दण्डादित्वाद्यत्, सचोपस्थितत्वात्पूर्वपदार्थभूतो दाय एवेति बोद्ध्यम् । 'धनस्य दायादः' इति