________________
५२८ ]
सिद्धान्तकौमुदी ।
[ समासस्वर
1
निपातानाम् । अयज्ञो वा एषः । परिगणनं किम् - स्नात्वाकालकः । मुहूर्त - सुखम् | भोज्योष्णम् । ३७३७ वर्णो वर्णेष्व नेते । ( ६-२-३ ) वर्णवाचि - नञ्प्रहणमकरणिरित्यादौ परस्यापि कृत्स्वरस्य बाधनार्थम् । करणिरित्यादौ श्राक्रोशे नव्यनिः' इत्यनिः । किंच तिस्र इत्यत्र 'तिसृभ्यो जसः' इति सतिशिष्टोऽपि विभक्तिस्वरो नञ्स्वरेण बाध्यते । अपि च चत्वारः अनड्वाह इत्यत्र सतिशिष्टोSयाम्स्वरो बाध्यते । श्रव्ययेत्यत्र 'जिहति ' इत्यादिना धातुना समासं निपात्य इनिः क्रियते, तस्यापि स्वरस्य बाधनार्थं कुग्रहणं चादिषु पाठाभावात् । स्नात्वेति । मयूरव्यंसकादिरयम् । नन्वयं तत्रैवान्तोदात्तो निपात्यतामिति चेन्न । सामिकृतं स्वयंधौतमित्यादिवारणाय परिगणनस्यावश्यकत्वात् । अन्यथा तत्रापि पूर्वपदप्रकृतिखरः स्यात् । इष्यते तु समासस्येत्यन्तोदात्तः । सामिकृतमित्यादौ 'सामि' 'स्वयं क्लेन' इति समासः । सुहूर्तसुखमिति । 'कालाध्वनोः -' इति द्वितीया । 'अत्यन्तसंयोगे च' इति समासः । मुहूर्तशब्दः पृषोदरादिरन्तोदात्तः । भोज्योष्णमिति । ' कृत्यतुल्याख्या-' इति समासः । भोज्यशब्दो रायदन्तः 'तित्वरितम्' इति स्वरितान्तः । वर्णो वर्णे । अत्रनेत इति प्रतिषेधाद्बहुवचननिर्देशाच्च उत्तरपदे स्वरूपग्रहणं द्वितीयातृतीयासप्तम्यन्तपूर्वपदत्वात् न हि विशेषणसमासः प्रथमान्तानामेवेति नियमोऽस्तीति चेन्न, लक्षण प्रतिपदोक्त परिभाषया द्वितीयादिशब्दोच्चारणेन विहितसमासस्यैव ग्रहणात् । शस्त्रीति । गौरादिङोषन्तः । अव्यये नकु । निपातत्वादेव सिद्धे नञ्प्रहणम् 'अकरणि' रित्यादौ परस्यापि कृत्स्वरस्य बाधनार्थमित्याहुः । 'अव्यथी'त्यत्र सतिशिष्टप्रत्ययस्वरबाधनार्थम् अतिस्त्र इत्यत्र सतिशिष्टविभक्तिस्वरस्य, श्रर्चत्वार इत्यत्र सतिशिष्टाऽऽम्स्वरस्य च बाधनार्थमित्येके । भाष्ये त्वेतदर्थं वचनान्येवारब्धानि 'अनुदात्तं पदमिति सूत्रे । कुग्रहणं चादिषु पाठाऽभावात् । केचित्तु चादिष्वेव कुः पाठ्यः, इह तु न पाठ्यः एवञ्चाव्ययत्वमपि तस्य सिद्धयतीत्याहुः । स्नात्वेति । अत्र समासान्तोदात्तत्वमेव । न च मयूरव्यंसकादिष्वेवास्याऽन्तोदात्तत्वं निपात्यतां किमनेनेति वाच्यम्, सामिकृतं स्वयन्धौतमित्यादि वारणाय - परिगणनस्यावश्यकत्वादिति कैयटादयः । भाष्यकृता त्वन्तोदात्तनिपातनमाश्रित्य परिगणनं प्रत्याख्यातम् । तस्यायं भावः - 'सामिकृतम्', 'स्वयन्धौत'मित्यादौ परिगणनवादिनाऽपि दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वमिष्यत एवेति मुहूर्त सुखमिति । 'कालाध्वनो रिति द्वितीया । काष्ठश्रितादौ । 'अहीने द्वितीयेति भाग्यम्, 'वनातीत' इत्यादी थाथादिस्वरः, 'ग्रामगमी' त्यादौ शिनिस्वरः, खड्वारूढे 'प्रवृद्धादीनाश्चेति, तस्मान्मुहूर्तसुखादीन्येवोदाहरणानीति भावः । भोज्योष्णमिति ।
•
•