________________
पाता।
प्रकरणम् ] सुबोधिनी-शेखरसहिता। नुदात्ते पूर्वपदे समासान्तोदात्तस्वमेव, यथा-समपादः । ३७३६ तत्पुरुषे तुल्यार्थतृतीयासतम्युपमानाव्ययद्वितीयाकृत्याः । (६-२-२) सप्तते पूर्वपदभूतास्तत्पुरुषे प्रकृस्या । तुल्यश्वेतः । ‘कृत्यतुल्याख्या अजात्या' ( ७४६ ) इति तत्पुरुषः । किारेणा काण: किरिकाणः । पतयन्मन्दयत्संखम् । मन्दयति मादके इन्द्रे । सखे ते सप्तमीतत्पुरुषः । शस्त्रीश्यामा। ॐ अव्यये नकुपरस्य 'उदात्ता दनुदागस्य-' इति स्वरितः। ततः परस्य 'स्वरितात्संहितायामनुदात्तानाम्' इति प्रचयः । समपाद इति । त्वत्वसमसिमेत्यनुच्चानोति सर्वानुदात्तः समशब्दः । पादशब्दो 'वषादीनां च' इत्यायुदात्तः । अत्र समासान्तोदात्तत्वमेव । तुल्यश्वेत इति । नौ वयोधर्मविष-' इति यति 'यतोऽनावः' इत्याद्युदात्तस्तुल्यशब्दः 'सहश्वेतः सदृशश्वेतः' इति । 'समानान्ययोश्च' इति किन्नन्तः सहा. शब्दः 'गतिकारकोप दात्कृत्' इति कृदुत्तरपद प्रकृतिस्वरेणान्तोदात्तः । एवं सदृशशब्दः कान्तो मध्योदात्तः । किरिणेति । 'कृगश कुठिमिदिच्छिादेभ्यश्च' इत्यौणादिक इ: स च कित् । 'भुजेः किच्च' इत्यतः किदित्यनुवर्तनात् । तेन किरिगिरिशब्दो प्रत्ययस्वरेणान्तोदात्तौ। मन्दयत्सखमिति । मदि स्तुत्यादिषु । ण्यन्ताल्लटः शत्रादेशः । तस्य दस्युभयथा' इत्यार्थधातुकत्वेन शबभावात्-'तास्यनुदात्ते. दिदुपदेशात्' इति निघातो न । अतः प्रत्ययायुदात्तत्वमेव । ‘णेरनिटि' इति णिलोपस्तु न । तं प्रति गर्वधातुकत्वाश्रयणात् । न च वैपरीत्यमापादनीयम् । छन्दसि दृष्टानुविधानात् । इमं मन्दयच्छब्दोऽन्तोदात्तः । अव्यये । निपातत्वादेव सिद्ध पूर्वसूत्रन्तु 'समपादः' इत्यत्र उदात्तस्वरिताऽयुक्तपूर्वपदके सावकाशम् । समपाद इति । समशब्दः ‘वत्त्वसमसिमेत्यनुच्चानी'त्यनुदात्तः । हरदत्तस्तुं 'सूजो डम'बित्याह । पादशब्दो वृषादित्वा दायु हात्तः । नन्वत्राऽस्मिन्स्वरे सत्यपि समासान्तोदात्तत्वं भविष्यति, रियविश्व' इत्यादौ तु न, एकपदे द्वयोरुदात्त योरसमावेशस्योक्तत्वे. नाऽसम्भवादिति चेन्न, 'सत्यपि सम्भवे बाधनं भवतीत्यङ्गीकाराददोषः । अन्यथोदात्तस्वरितयोः समावेशाऽभावे ज्ञापकाऽभावान्मनुष्यनाथ इत्यत्रोभयोः समावेशः स्यादित्याहुः । तत्पुरुषे । तुल्यश्वेत इति । तुल्यशब्दो यदन्त आधुदात्तः । मन्दयत्संखमिति । मन्देगयन्ताल्लः । शत्रादेशः । तस्य छान्दसत्वादार्द्धधातु. कत्वेन शबभावाददुपदं शादिति निघाताऽभावे प्रत्ययायुदात्तत्वमेव । णिलोपस्तु न, तं प्रति सार्वधातुकत्वा श्रयणात । छन्दसि दृष्टानुविधानान्न वैपरीत्यं शङ्कयम् । इत्थं मन्दयच्छब्दोऽन्तोदात्तः । ततस्तत्पुरुषे टच्यगि छान्दसत्वादेवाऽत्र चित्स्वराऽभावः । ननु ‘परमं कारकं पश्य' 'परमेण कारकेण' 'परमे कारके' इत्यर्थे समासेऽतिप्रसङ्गः,