SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ ५२६ ] . सिद्धान्तकौमुदी। [समासस्वरदात्ताः । ३७३३ उपोत्तमं रिति । (६-१-१९७) रिस्प्रत्ययान्तस्योपोत्तमनु. दात्तं स्यात् । यदाहवनीये । इति प्रत्ययस्वराः। समासस्वराः । ३७३४ समासस्य । (६-१-२२३) अन्त उदात्तः स्यात् । यज्ञ. श्रियम् । ३७३५ बहुव्रीहौ प्रकृत्या पूर्वपदम् । (६-२-१) उदात्तस्वरित. योगि पूर्वपदं प्रकृत्या स्यात् । सत्यश्चित्रश्रवस्तमः। उदात्तेत्यादि किम्-सर्वा दात्तत्रयं भवति एवमिडभावेऽपि स्यादित्यर्थः । पाहवनीय इति । बाहुलकादधिकरणेऽनीयर् । प्रीणनात्किर्मणि वा । ततो गतिसमासे कृदुत्तरपदप्रकृतिस्वरः। इति प्रत्ययस्वराः। समासस्य । यज्ञश्रियमिति । षष्ठीतत्पुरुषः । श्रीशब्दस्योदात्तत्वे कृते आन्तरतम्यादियङ्गुदात्तः । बहुवीही। इहोदात्तस्वरितग्रहणमनुवर्तमानं तद्वति वर्तते । पूर्वपदसामानाधिकरण्यात्सूत्रे प्रकृत्येतावदुक्तेऽपि स्वरप्रकरणात्प्रकृतिस्वरेणैव प्रकृतिभावो विज्ञायते । पूर्वपदस्य प्रकृतिभावस्तत्स्थयोरुदात्तस्वरितयोः प्रकृतिभाव. द्वारेणेत्याशयेनाह उदात्तस्वरितयोगीति । चित्रति । श्रूयते इति श्रवः कीर्तिः। चित्रं श्रवो यस्य स चित्रश्रवाः । ततस्तमप् चित्रशब्दः फिट्स्वरणान्तोदात्तः । ततः दात्तार्थ स्यात् । ततश्च यथा 'लुलविथे'त्यादौ चतुर्णाम , 'पपिथ' इत्यादौ त्रयाणामेवमिडभावेऽपि स्यात् , सेड्ग्रहणात्तु सेटयेव भवति । एवञ्च 'पपाथे'त्यत्र लित्स्वर एव । अजन्तभ्यः किम् ? बिभेदिथ । 'पपिथे'त्यादौ परत्वादातो लोपेऽजन्तात्परो नास्तीति विहित इत्युक्तम् । उपोत्तमं रिति । प्रत्ययस्वरापवादोऽयम् । आह. वनीये बाहुलकादधिकरणेऽनीयः, प्रीणनात्कर्मणि वा। ततो गतिसमासे कृदुत्तरपदप्रकृतिस्वरः । इति प्रत्ययस्वराः । अथ समासस्वराः । समासस्य। यज्ञश्रियमिति । षष्ठीतत्पुरुषः, श्रीशब्देकारस्योदात्तत्वे आन्तरतम्यादियङप्युदात्तः । हल्स्वरप्राप्ती व्यञ्जनस्याऽविद्यमानवद्भावाद् 'राजदृष'दित्यादौ षकाराऽकार उदात्तः । पर्यायेण नानापदानां स्वरे प्राप्तेऽयमारम्भः । उदात्तस्वरितयोगीति । उदात्तस्वरितग्रहणमनुवर्तमानं तद्वति वर्तते, पूर्वपदसामानाधिकरण्यात् । एवञ्च पूर्वपदस्य प्रकृतिभावस्तत्स्थयोरुदात्तस्वरितयोः प्रकृतिभावद्वारेणेति भावः । यद्वा पूर्वपदस्थेऽपि पूर्वपदशब्दो वर्तते । इदं 'कुगती'त्यत्र कैयटे स्पष्टम् । चित्रश्रव इति । श्रूयत इति श्रवा-कीर्तिः । चित्रं श्रवो यस्येति चित्रश्रवाः । ततस्तम+ बहुव्रीहाविति किम् ? राजपुरुषः ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy