________________
५२४ ] सिद्धान्तकौमुदी। [प्रत्ययस्वरकिम्-कतीह पचमानाः ! सार्वधातुकं किम्-शिश्ये । पहिडोः किम्-नुते । यदधीते । ६ विन्दीधिखिदिभ्यो नेति वक्तव्यम् । इन्धे राजा । एतच्च 'अनुदात्तस्य च यत्र' (३६५१ ) इति सूत्रे भाष्ये स्थितम् । ३७३१ आदिः सिचोऽन्यतरस्याम् । (६-१-१८७) सिजन्तस्यादिरुदात्तो वा। यासिष्टं इति । यद्यपि 'अनुदात्तोपदेश' इत्यनुनासिकलोपे कृते सत्यकारान्तात्परं लसार्वधातुकं भवति तथाप्युपदेशग्रहणान भवति । न हि हन्तिरदन्त उपदिश्यते । कतीह पचमाना इति । ताच्छील्यवयोवचनशक्लिषु चानश्, कचित्तु 'कतीह निनानाः' इति दृश्यते तत्र निनशब्दादाचारविबन्ताच्छान्दसो मुगभावः । तत्तु तास्यादिभ्यः परत्वाभावाचिन्त्यम् । शिश्य इति । 'एरनेकाचः-' इति यणादेशः 'लिट् च' इत्याध. धातुकमेतत् । यदधीत इति । यच्छन्दप्रयोगो 'निपातैयद्यदिहन्त-' इति निघातप्रतिषेधार्थः । अत्र प्रत्ययायुदात्तत्वमेव । विद विचारणे, इन्धी दीप्ती, खिद दैन्ये, इति त्रयोऽनुदात्तेतः । तेभ्यः परस्य सार्वधातुकस्यानुदात्तत्वे प्राप्ते आह विन्दीचेन्न, लुप्तं विकरणमादायाऽस्याऽप्रवृत्तिज्ञापनार्थन्तत्सत्त्वात् । तेन 'अत्तः' इत्यादि अन्तोदात्तं सिद्धम् । प्रसङ्गात्किञ्चिदुच्यते-'रुणद्धी' त्यादौ श्रमि कृते तन्मध्यपतितन्यायेन विशिष्टस्य धातुत्वाद्धातुवरेणाऽन्तोदात्तत्वमिति 'येन विधि'रिति सूत्रे भाष्ये स्पष्टम् । नमो मित्त्वेन परश्चेति परत्तस्य तत्राऽप्रवृत्तौ तत्सन्नियोगशिष्टायुदात्तत्वस्यापि तत्राऽप्रवृत्तिरिति शेषनिघातेन तस्याऽनुदात्तत्वे प्राप्ते सतिशिष्टो धातुस्वरस्तोष्टव्य इति तदाशयः। न चैवं 'रुद्धः' इत्यत्र पूर्वोक्तरीत्या भ्रम उदात्तत्वे वय॑मानस्वरेण तसोऽनुदात्तत्वं स्यादिति वाच्यम् , 'सतिशिष्टोऽपि विकरणस्वरः सार्वधानुकस्वरं न ब धते' इत्युक्तरदोषात् । हत इति । 'अनुदात्तोपदशे'ति नलोपे कृते हन्तिरदन्तः, न तूपदेशे। निघ्नाना इति । निनशब्दान्नामधातोश्चानश , मुग. भ छान्दसत्वात् । एतेन तास्यादिभ्यः परत्वाऽभावादिदं चिन्त्यमित्यपास्तम्। 'दीव्य. मान' इत्यपि प्रत्युदाहरणम् । न च मतिशिष्टश्यन्वरेण चानश्वरस्य बाधापत्तिः, विकरणस्वरो लसार्वधातुकस्वरमेव न बाधते, इतरसार्वधातुकस्वरन्तु बाधेतैवेति वाच्यम् , 'आत्ममाने खश्चेति सूत्रे सार्वधातुकस्वरमात्राऽबाधकत्वस्यैव भाष्ये व्यवस्थापितत्वादिति दिक् । विन्दीन्धि । एभ्यो लिङस्तोऽनुदात्तत्वे प्रतिषिद्धे इन्धीतेत्यादौ प्रत्ययाद्युदात्तत्वेन व्यवस्था । ननु 'तास्यनुदात्ते'दिति सूत्रभाष्ये विदी. निखिदिभ्यः परस्यानुदात्तत्रं भवतीत्यर्थो लभ्यते, तत्कथं निषेध प्रारभ्यत इत्यत भाह एतच्चेति । एवञ्च तद्भाष्यविरोधात्प्रकृतसूत्रस्थं भाज्यं प्रौढिवाद इति भावः ।