SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता [५२३ किम्-अभि वृधे गृणीतः । उपदेशग्रहणान्नेह । हतो वृत्राण्यार्या । लग्रहणं शृणुते जरितुर्हवम् । अत्र श्नुरतिदेशेन ङित् । चनस्यतमिति । चनोऽयं तदात्मन इच्छन्तमित्यर्थः । क्यच् । लोट्, यसस्तम् शप् स चानुबन्धस्यानेकान्तत्वाददुपदेशः । चित्स्वरोपीति। चित्स्वरस्यावकाशः। चलनः। चलनशब्दार्थादकर्मकायुच् । अस्यावकाश प्रास्ते इत्यादौ । वर्धमानमित्यत्र स्वयं निघातश्वित्स्वरं बाधते परत्वादिति भावः । वर्धमानमिति । वृधु वृद्धौ । लटः शानच् । शप्, 'आने मुक्' इति मुक् । न चात्र मुका व्यवधानम् । यद्य कारस्यागमो मुक्, तदाकारी. पदेशात् परं लसार्वधातुकमिति सिद्धो निघातः । स्वावयवेन व्यवधानाभावात् । यद्यकारान्तस्याङ्गस्य भक्ती मुक् तदादुपदेशलसार्वधातुकमात्रापेक्षत्वादन्तरणस्वरं प्रत्यकारान्तविशिष्टाङ्गप्रत्ययाक्षस्य बहिरङ्गस्य मुकोऽसिद्धत्वात्सिद्धो निघातः । हत द्भविष्यति । चनस्यतमिति । चमोऽन्नम् , तदात्मन इच्छतमित्यर्थे क्यच् । लोट् , थसस्तम् । शम्। स च पित्त्वशित्त्ववैशिष्टयनाऽकारोपदेश एव तात्पर्यादकारान्तोपदिश्यमानो भवत्येव । चित्स्वरोऽपीति । परत्वादिति भावः । घर्द्धमानमिति । मुक्तु अकारभक्तत्वाद् ‘पदागमाः-' इति न्यायेन न तस्य व्यवधायक इति न दोषः । न च वर्णप्रहणे तदप्रवृत्तिः, 'अकारान्तोपदिश्यमानादित्यर्थेनेह वर्णग्रहणाऽभावात् । 'वक्ष्यमाणः' इत्यादावधि अवयवावयवस्य समुदायाऽवयवत्वान्न मुक् स्यस्य व्यवधायक इति बोध्यम्। ननु पच् मि इति स्थिते प्रायन्नादिषूपदेशिवद्भावादन्तौ, शपि, लसार्वधातुकानुदात्तत्वं बाधित्वा नित्यत्वादन्तरङ्गत्वाद्वा 'अतो गुणे' इति कृते व्यपवर्गाऽभावादेतत्स्वराऽप्राप्तिः । अन्तवद्भावस्तूभयत श्राश्रयणे निषिद्धः । तत्प्रवृत्तावपि व्यप. वर्गस्य तेनाऽनतिदेशाच्च, पचत इत्यादौ सावकाशत्वाद् भूतपूर्वगतिर्न युज्यते इति चेन्न, इष्टापत्तेः 'पचन्ति ते वृषभा'नित्यादावाद्युदात्तत्वन्तु छन्दसत्वादित्याहुः । 'स्वरभिन्नस्य प्राप्त्या न नित्यत्वम् , उभयोरपि पूर्वपरोभयापेक्षत्वेन नाऽन्तरत्वम् , पञ्चमीसमासे 'अचः पस्मि निति स्थानिवद्भावेन व्यपवर्गस्य सुलभत्वाचे'त्यन्ये । 'पचावः' इत्यादौ दीर्घ कृतेऽपि उपदेशग्रहणादिदं प्रवर्तते । “पचे दित्यादावपि शपः परस्य यासुविहितस्य सार्वधातुकस्याऽनुदात्तत्वं भवत्येव । यासुट उदात्तत्वन्तु आशी. लिडि चिनुयादित्यादौ च सावकाशम् । अदुपदेशादिति तपरकरणात् 'क्रीणाती'त्यादौ लसार्वधातुकानुदात्तत्वं न । 'प्रत्ययाऽप्रत्यययो'रिति परिभाषया नेह-जहि शत्रुमन्तिके। एतत्परिभाषाप्रवृत्तये एवाऽकारान्तोपदिश्यमानादिति व्याख्यातम् , अन्यथा वर्णग्रहणे सा न प्रवर्तेत, छान्दसो वा व्यत्ययस्तत्र । नन्वास्ते इत्यादौ लुप्तं शपं गृहीत्वाऽदुपदेशादिति लसार्वधातुकानुदात्तत्वं सिद्धमिति व्यर्थमनुदात्तेन्ङिद्ग्रहणमिति
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy