________________
५२२ ] सिद्धान्तकौमुदी। [प्रत्ययस्वरनुः परा झलादिविभक्तिर्वोदात्ता । नृभिमानः। ३७२६ तित्स्वरितम् । (६१-१८५ ) निगदव्याख्यातम् । के नूनम् । ३७३० तास्यानुदात्तेन्ङिददुप. देशालसार्वधातुकमनुदात्तमलिडोः। (६-१-१८६ ) अस्मात्परं नसार्वधातुकमनुदात्तं स्यात् । तासि । कर्ता । कर्तारौ । कर्तारः । प्रत्ययस्वरापवादोऽ. यम् । अनुदात्तेत् । य प्रास्ते । हितः । अभिचष्टे अनृतेभिः । अदुपदेशात् । पुरुभुजाचनस्यतम् । चित्स्वरोऽप्यनेन बाध्यते । वर्धमानं वे दमे । तास्यादिभ्यः विभक्तिरुदात्ता । तित्स्वरितम् । निगदव्याख्यातमिति । उच्चारणेनैव व्याख्यातमित्यर्थः । केति । किमोत्' 'तित्स्वरितम्' 'काति' इति किमः क्वादेशः । तास्यनु । तास्यादीनां समाहारद्वन्द्वः । उपदेशग्रहणं संभवव्यभिचाराभ्यां उिदयां संबध्यते, न तु तास्यनुदात्तेभ्याम् । विदिति कर्मधारय उपदिश्यत इत्युपदेशः । तस्याकारण डिता च विशेषणात्तदन्तविधिः । तथा च सूत्रार्थ:-~-तासेरनुदात्तेतो ङिटुपदेशादकारा. न्तोपदेशाच्च परं लसार्वधातुकमनुदात्तं स्यात् । हिङी वर्जयित्वा। कर्तेत्यादि। 'लुटः प्रथमस्य डारौरसः' एकवचने डित्त्वाहिलोपः । इतरत्र 'रिच' इति सलोपः ।
आस्त इति । इत्यत्रादादित्वाच्छपो लुक् । ङित इति । अस्याप्युपदेशविशेषणान्नेह । विकल्पे लब्धेऽन्यतरस्याङ्ग्रहणेन व्यवस्थितविभाषात्वबोधनादिष्टसिद्धिरिति वाच्यम् , भलीत्यस्याऽसम्बन्धे योगविभागस्य शसि नित्योदात्तत्वविधायकत्वाऽऽशङ्कावारणार्थ. त्वेनाऽन्यतरस्याङ्ग्रहणस्य चरितार्थत्वात् । भाष्याऽनुक्लव्यवस्थितविभाषाया अप्रा. माणिकत्वाच्च । तित्स्वरितम् । 'कर्षाऽऽत्वतः' इत्यतोऽन्त इति वर्तते, तित्प्रत्यय. स्याऽन्तः स्वरितः स्यादित्यर्थः । के नूनम् । तित्किम् ? कर्त्तव्यम् । अन्तः किम् ? तव्यतः पर्यायेणाऽऽद्यन्तौ स्वरितौ मा भूताम् । ऋत उत् , उदोष्टयपूर्व, दिव उत् , इदुद्भ्याम् , औदित्यादौ तिति प्रत्ययग्रहणेन न दोषः। तास्यनुदात्तेत् । तास्यादीनां समाहारद्वन्द्वः । अत्रोपदेशग्रहणं सम्भवव्यभिचाराभ्यां दिव्यामेव सम्बध्यते, न तु तास्यनुदात्तन्याम् । उपदिश्यत इत्युपदेशः। डिदिति कर्मधारयः । इत्सम्ज्ञक डकारेण, अकारेण चोपदिश्यमानस्य विशेषणात्तदन्तविधिः । तेन ङिदन्ताऽकारान्तो. पदिश्यमानादित्यर्थः। अदुपदेशादित्यस्य यथाश्रुतत्वे हि हतो हथ इत्यत्रापि स्यात् । कतैति । लुट । प्रात्मनेपदप्रथमस्य डारौः सः, तासिः । एकवचने उदात्तनिवृत्तिखरेऽपि इतरयोः फले विशेषः । ङित इति । अस्याप्युपदेशविशेषणत्वान्नेह-शृणुतं जरितुर्हवम् । अत्र श्नुरतिदेशेन चित् । नन्वनुबन्धानामनेकान्तत्वात्कथं चक्षिोऽपि विदन्तत्वमिति चेन्न, अनुबन्धेष्वेकान्तपक्षस्यैव न्याय्यत्वात् । किंच विशेषणसामर्थ्या.