________________
प्रकरणम् ] सुबोधिनी-शेख सहिता। । ५२१ झल् । ( ६-१-१८३ ) दिवः परा झलादिविभकिर्नोदात्ता। युभिरक्तुभिः । झलिति किम्-उप स्वाने दिवेदिवे । ३७२८ नृवान्यतरस्याम् । (६-१-१८४) क्किबन्तः । कृता कृते दिवो। झलादिरिति । नन्वसति सप्तमीनिर्देशे कथं पुनरत्र तदादिविधिः । केवल मलात्मिकाया विभक्तेरभावादेव तदादिविधिः । ननु तर्हि तदन्तविधिरस्तु का पुनर्मलन्ता विभक्तिः । शमादिः सकारान्ता इति चेत्सत्यम् । 'षत्रिचतुभ्यो हलादिः' इत्यत आदिरिति वर्तते । दिवः परा विभक्तिोंदात्ता भवति, कोदृशो यस्या झलादिरिति । द्युभिरिति । 'सावेकाचः' इति वा 'ऊड. दम्' इति वा प्राप्तः स्वरः प्रतिषिध्यते । दिवेदिवे इति । 'ऊडिदंपदात्' इति 'केभ्यः', 'काभ्यः' इत्यादौ न निषेध इति भाष्योक्तमेव रमणीयम् । राद-राजा, परमराजा । अङित्यतिः क्विन्नन्तोऽलुप्तनकारो गृह्यते, यत्र नलोपो नास्ति तत्रैव प्रतिषेधो यथा स्यादित्यर्थ-प्रात्रा, प्रत्यञ्चा। आद्ये 'सावेकाचः' इति प्राप्तिः। अञ्च. शब्दश्च 'अनिगन्तोऽातौ' इति पूर्वपदप्रकृतिस्वरेणाद्युदात्तस्तदेकादेशोऽप्युदात्त एव । [अन्त्यस्तु इगन्तपूर्वपदत्वात्कृत्स्वरेणान्तोदात्तः ] तस्य 'अन्तोदात्तादुत्तरपदस्य'ति प्राप्तिः । यदि तु 'अनिगन्तोऽञ्चतौ' इति सतिशिष्टविभक्तिस्वरस्यापि बाधकम् , तदाऽन्त्यमेवोदाहरणम् । गतौ तु लुप्तनकारत्वाद्विभक्त्युदात्तः स्यादेव । वस्तुतश्चावितिसूत्रस्थभाष्याप्रामाण्यादा लुप्तनकारस्यापि ग्रहणम् । प्रतीचो बाहूनित्यादि तु छान्द. समिति बोध्यम् । कुड़-क्विन्नन्त एव । कृदिति-करोतिः कृन्ततिर्वा किबन्तः । दिवो झल । भिरिति। 'ऊडिद'मिति प्राप्तस्य निषेधः। ननु दिवशब्दः फिट्वरेणाऽन्तोदात्तः, कारस्थानिक उकारो हल्स्थानिकत्वादनुदात्तः, अस्वरको वा, सर्वथाऽप्यन्तोदात्तत्वाऽभावात्कथमत्र प्राप्तिरिति चेन्न, 'दिव उदित्यत्रोदात्त उकारो निपात्यते इत्यदोषात् ! न चोदात्तनिपातनसामर्थ्याद्विभक्तिस्वराऽप्रवृत्तौ 'दिवो झलिति व्यर्थमिति वाच्यम् , 'अहर्बिमला' इत्यादी अन्तरङ्गप्रकृतिस्वरस्य सतिशिष्टतया बाधेन चारितार्थ्यात् । दिवेदिव इति । अत्र 'ऊडिद'मिसेव भवति । नृचान्य। 'सावेकाचः' इत्यस्याऽपवादोऽयम् । अत्र झलीत्यनुवर्तितम् । तत्फलन्तु ब्रा, त्रे, नरि । अत्र सुपि यद्रूपं नृ इति, स्थानिवद्भावेन ततः परत्वात् 'सावकाच' इत्यस्य प्राप्तिः । [त्रा ने इति तु 'उदात्तयणः' इत्यनेनास्य बाधादपि सिद्धम् । इदश्च 'नामन्यतरस्या'मिति सूत्रे भाष्ये स्पष्टम् । वेदे क्वचिन्नरीत्याद्यदात्तं पठयमानन्तु छान्दसत्वाद्बोध्यम् । एतेन झनीति नानुवर्तते, 'य एक इन्नर्यपां स्त्री'लत्र नरीत्यायुदात्तस्य दर्शनादित्यपास्तम् । लोके नरीत्यन्तोदात्तस्यैवेष्टत्वात् । न च योगविभागसामयन