SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ ५२० ] सिद्धान्तकौमुदी। [प्रत्ययस्वरवचने अवर्णान्तात् । तेभ्यो थुन्नम् । तेषां पाहि श्रुधी हवम् । ३७२७ दिवो मिति । अत्र चिदिति पदं संहितापाठे बाहुलकात् शब्दस्य मध्ये प्रक्षिप्यते । पद. काले तु शुनःशेपं चिदिति पठ्यते । 'शेपपुच्छ लाङ्गुलेषु शुनः' इत्यलुक् । वनस्पयादित्वादुभयपदप्रकृतिस्वरः । श्वनशब्दे तेभ्यः तेषामित्यत्र च 'सावेकाचः-' इति प्राप्तं प्रतिषिध्यते । राडिति विवन्तः । राजा । अङिति। अञ्चतिः किवन्तः । तस्य सनकारस्य ग्रहणं विषयावधारणार्थम् । यत्र नलोपो नास्ति तत्रैव प्रतिषेधो यथा स्यात् । प्राचा। प्राङ्भ्याम् । 'नाच्चेः पूजायाम्' इति प्रतिषिध्यते नलोपः । 'अञ्चेश्छन्दस्यसर्वनामस्थानम्' इति प्राप्तं निषिध्यते । गतौ तु विभक्त्युदात्तः स्यादेव । प्राचा प्राचे। क्रुङिति । किन्नन्तः। कुचा । क्रुञ्च कौटिल्याल्पीभावयोः । ऋत्विक्-' इत्यादिना किन् । तत्रैव सूत्रे क्रुञ्चेति निपातनान्न लोपाभावः। कृत् । करोतिः कृन्तति इति । शुनश्चिच्छेपमिति । अत्र चिदिति संहिता पाठे गहुलकाच्छुनःशेपशब्दस्य मध्ये प्रक्षिप्यते । पदकाले तु शुनः शेपं चिदिति पठयते । 'शेपपुच्छलाङ्कनेषु' इत्यलुक् । वनस्पत्यादित्वादुभयपदप्रकृतिस्वरः । सौ नलोपस्याऽसिद्धत्वात् स्वनिति रूपम् , एकदेशविकृतन्यायेन ततः परा विभक्तिरिति 'सावेकाचः-' इति प्राप्तिः । प्रथमैकवचन इति । न तु 'सावेकाच-' इतिवत्सुपो ग्रहणम्। यत्तदोः स्त्रियामवर्णान्तत्वेऽपि लिङ्गान्तरे दकारान्तत्वाद् व्याख्यानाचेति भावः । तत्र सावियवर्णान्तविशेषणम् । सौ यदवर्णान्तं दृष्टं तस्मादित्यर्थः । 'सावेकाचः' इतिवद्रूपविवक्षा त्वत्र न, व्याख्यानात् । एतेन तेभ्य इत्यत्र सौ यदनान्तं रूपं ततः परत्वाऽभावात्कथमत्र निषेधप्राप्तिरिति परास्तम् । सौ यदवर्णान्तं दृष्टं ततोऽनवर्णान्तादपि सिद्धः। नन्वेवमपि श्वन्प्रहणं व्यर्थम् , श्वा इति प्रथमैकवचनेऽवर्णान्तत्वादिति चेन्न, नलोपस्याऽसिद्धत्वेनाऽदोषात् । अत एव ज्ञापकात्स्वर. निषेधऽपि नलोपाऽसिद्धत्वप्रवृत्तिः। अत एव 'पितृमा नित्यादौ मतुप उदात्तत्वं भवसेव । न चैवं नपुंसकप्रथमैकवचने 'त'दित्यादौ त्यदायत्वाऽभावेन 'तेभ्यः कुलेभ्यः' इत्यादी निषेधो न स्यात् । न चेष्टापत्तिः, 'यत्तदोश्च ग्रहणं कर्तव्य'मिति भाष्यमते तत्प्राप्तेः-इति वाच्यम् , सौ यस्य शब्दस्य वाऽपि अवर्णान्तत्वं दृष्टं ततः परविभक्तेः सर्वत्र निषेध इत्यर्थात् । वस्तुतस्तु अत्रापि रूपविवज्ञाऽस्त्येव, परन्तु तादृशापात्परत्वं विभक्त्यादीनां तदुत्पत्तिकालावच्छिन्नं प्राह्यम् । अत एव 'चौ' इति सूत्रस्थभाष्यविरोधो न । तत्र हि 'वेतस्वा'नित्यत्रास्य प्राप्तिः शङ्किता। अत एव 'कुमारो'त्यादावुदात्तनिवृत्तिस्वरनिषेधसूत्राऽसिद्धवत्सूत्रस्थभाष्यविरोधोऽपि न । 'वीरवत्तमं वीराणा'मित्यायुदाहरणम् । यत्तदर्थ भाष्यकृता वचनमेवारब्धम् । अत एव
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy