________________
प्रकरणम् ] सुबोधिनीशेखरसहिता। [५१६ (६-१-१७६ ) एभ्यो हलादिविभक्तिरुदात्ता । भाषड्भिर्खयमानः । त्रिभिष्ट्र देव । ३७२६ न गोश्वन्साववर्णराडद्भयः । (६-१-१८२) एभ्यः प्रागुक्तं न । गवां शता। गोम्यो गातुम् । शुनश्चिच्छेपम् । सौ प्रथमैक. नामष्टानाम् । सप्ताष्टशब्दो घृतादित्वादन्तोदात्तौ। हलादिः किम् । चतस्रः पश्य । यथैतदिह हलादिग्रहणस्य व्यावत्य तथा 'चतुरः शसि' इत्यत्रवावोचाम । न गो। साविति यदि सप्तमीबहुव वनग्रहणं स्यात् तेभ्यः केभ्य इत्यत्र न स्यात् तत्किशब्दयोः सप्तमीबहुवचने परतः त्यहाद्यत्वे कृते 'बहुवचने झल्येत्' इत्येत्वविधानात् । तेषु केषु इत्यत्रावर्णान्तत्वाभावात् । ताभिर्याभिरित्यादावेव स्यात् तासु याखित्यत्रावर्णान्तत्वात् । तस्मात्प्रथमैकाचनमित्याह सौ प्रथमैकवचन इति । अनन्तर प्रतिषधस्यासंभवात् षाष्टिकस्वरस प्रतिषेधो विज्ञायत इत्याह प्रागुक्त नेति । एवं च वीरवत्तममित्यत्र 'हस्वनु इभ्यां मतुप्' इति न भवति । 'स्फायितच्चि-' इत्यादिना रकि अन्तोदात्तो वीरशब्दः । गोभ्य इति । 'सावेकाचः' इति प्राप्तम् । शुनश्चिच्छेप. अत्र यद्वक्तव्यं तच्चतुरः सीत्यत्रोक्तम् । नगोश्वन् । सौत्रत्वाद्द्वन्द्वः, सप्तम्यलुक् च । एभ्य इति । विभक्तर्मतुपश्चेत्यर्थः । 'मतु'बित्य स्य, विभक्तिरित्यस्य चानुवृत्तेः । एतच्च 'चौ' इति सूत्रे भ ष्यकैयटयोः स्पष्टम् । प्रागुक्तमिति । षाठिकम्वर इत्यर्थः। तेन 'श्राद्युदात्तौ सुप्पिती इत्यस्य बाधः। एतच्चाऽनन्तरस्येति न्यायलब्धम् । न च तन्न्यायानुसरणे षट्वीयस्यैव बाधः स्यादिति वाच्यम् , गवादिषु असम्भवात् । एवं च 'वीरवत्तम'मित्यत्र 'हस्वनुड्भ्या 'मिति न भवति, 'देवी' 'कुमारी'त्यादावन्तो. दात्तत्वं च सिध्यति । उदात्तनिवृतिस्वरेण हि तत्रान्तोदात्तत्वम् । यत्तु तृतीयादि. विभक्तेरुदात्तत्वं नेत्येतत्सूत्रं विवृण्वते, तन्न, लक्ष्यविरोधात् । एतेन किञ्चित्स्वरणामपि बाधः स्यात् । तथा च 'कितः' इति सूत्रे 'पाक्षिक' इत्युदाहरणपरवृतिविरोध इत्यपास्तम् । 'अनुदात्तं पद'मित्यस्य तु परिभाषात्वाद्विभक्त्यादिस्वरत्वाऽभावाच्च न बाधः । 'ऊडद'मित्यस्य न निषेधः, पदादेः, रैशब्दस्य च ग्रहणवेयर्थ्यापत्तेः । गवां शतेति । 'सावेक चः' इति प्राप्तिः । नन्वत्र सप्तमीबहुवचने सावेकानपं गो इति, न ततः परेयं विभक्तिः । न च स्थानिवद्भावः, 'गोः पूर्व [व] णित्त्वात्व. स्वरेषु' इति वार्तिकेन स्वरे कर्तव्ये निषेद्धव्ये वा गोशब्दादेशस्य स्थानिवत्वनिषेधेन विधिनिषेधयोरुभयोरप्याप्तेः । अत एव 'सुगुपाल' इत्यत्र 'गोतन्तियवं पाले' इति स्वरो न । एतेन 'सुगुना 'बहुगुने'ति वृत्तिकारोक्तमपि परास्तम् । एवञ्च सुगुनेत्यादी निषेधाऽभावे 'अन्तोदात्तादुत्तरपदा'दिति भवत्येवेत्यरुचेरुदाहरणान्तरमाह गोभ्य