________________
५१६ ] सिद्धान्तकौमुदी। [प्रत्ययस्वरयणो हल्पूर्वात् । (६-१-१७४ ) उदात्तस्थाने यो यण् हरुपूर्वस्तस्मात्परा नदी शसादिविभक्तिश्च उदात्ता स्यात् । चोदयित्री सन्तानाम् । एषा नेत्री। ऋतं देवाय कृण्वते सवित्रे । ३७२१ नोधात्वोः । (६-१-१७५ ) अनयोर्यणः परे शसादय उदात्ता न स्युः । ब्रह्मबन्ध्वा । सेत्पृश्निः सुम्वे । ३७२२ ह्रखनुड्भ्यां मतुप् । ( ६-१-१७६ ) हस्वान्तादन्तोदात्तान्नुटश्च परो मतुबु. उदात्तयणो । 'उदात्तवरितयोर्यणः स्वारेतोऽनुदानस्य' इति प्राप्त वचनम् । चोद. यित्री नत्री सवित्रे इति नृजन्ता एते । “चितः' इत्यन्तोदात्तः । हल्पूर्वादिति किम् । बहुतितवा ब्राह्मण्या । स्त्रीलिङ्गोपादानं नाभावनिवृत्त्यर्थम् । 'तनोतेर्ड उः सन्वञ्च' इति उ । 'चालनी तितउः पुमान्' 'बहोर्नवदुत्तरपदभूमि' इति बहुव्रीहिरन्तोदात्तः । तत्र 'उदात्तस्वरितयोः-' इति विभक्तेः स्वारतत्वम् । अस्मिन्सूत्रे नकारग्रहणं च कर्तव्यम् । उदात्तस्थाने यो नकारस्ततोऽपि परस्या नद्या उदात्तत्वं वक्तव्यमित्यर्थः । तेन वाचां पतिः वाक् पनीति सिद्धम् । अत्र हि 'पत्यावश्वर्य' इति पूर्वपदप्रकृतिखरस्य 'न भूवाचिद्दिधिषु' इति प्रतिषेधात्समासान्तोदात्तत्वे 'विभाषा सपूर्वस्य' इति नकारे नान्तत्वान् बीप अनेनोदात्तः। नोड्। शसादय इति । यद्यपि पूर्वसूत्रे नद्यजादीत्यनुवर्तते तथापि ऊधात्वोयणः परा नदी न संभवतीति नानुवर्तिता ब्रह्मबन्ध्वेति । ऊङ् प्रत्ययस्वरेणोदात्तः । तेन सह य एकादेशः सोऽप्युदात्तः । तस्मात्परस्योदात्तत्वे प्रतिषिद्धे 'उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' इति विभक्तिः खरिता । सुभ्व इति । किबन्तस्य कृदुत्तरपदप्रकृतिवरेशान्तोदात्तस्य 'श्रोः सुपि' बृहती, बृहता । महती । यद्यपि शतृवद्भावनेद सिद्धं तथापि बृहन्महतोरेवेति नियमार्थमिदम् । तेन पृषता पृषती इत्यादीनां न । ननु 'प्रियमहती'त्यादौ सूत्रेणाs. सिद्धविधानार्थमेव स्यादिति चेत् , न, वार्तिकेऽप्यन्तोदात्तादित्यस्य सम्बन्धेनाऽत्र तस्याऽप्यप्रवृत्तेः । 'अतिमहती'त्यत्र 'अतेरकृत्पदे' इत्यन्तोदात्तत्वाद्भाव्यमेव । विदुष इत्यादौ वसोः स्थानिवत्त्वेन शतृत्वात्ततः परयोर्नदीविभक्तयोरुदात्तः प्राप्तः, स्वरे वस्वादेशे स्थानिवत्त्वप्रतिषेधान्न भवति । उदात्तयणो । उदात्तस्वरितयोरित्यस्यापवादः । हल्पूस्किम् ? बहुतितवा ब्राह्मण्या । 'बहोर्नञ्च'दिति बहुव्रीहिरन्तोदात्तः । अत्रोदात्तस्वरितयोरिति विभक्तिः स्वरिता । अत्र 'उदात्तस्थानिकनकाराचे'ति वक्तव्यम् , वाक्पत्नी । तत्पुरुषः। 'पल्यावैश्वर्ये' इति प्राप्तस्य पूर्वपदप्रकृतिस्वरस्य 'न भूवाक्चिद्दिधिषु' इति निषेधे 'समासस्य'त्यन्तोदात्तः । नोधा । शसादय इति । असर्वनामस्थानोपलक्षणम् । नदीग्रहणमसम्भवान्नानुवर्तितम् । सुभ्वे इति । कृदुत्त.