________________
प्रकरणम् ] सुबोधिनी-शेखरसाहता । [५१५ ३७१६ शतुरनुमो नद्यजादी (६-१-१७३) अनुम् यः शतप्रत्ययस्वदन्तादन्तोदात्तास्परा नदी अजादिश्च शसादिविभक्तिरुदात्ता यात् । अच्छा रवं प्रथमा जानती । कण्वते । अन्तोदात्तास्किम्-दधतो । अभ्यस्तानामादिः ( ३६७३) इत्यायुदात्तः। अनुमः किम्-तुदन्ती । एकादेशोऽत्र उदात्तः । प्रदुपदेशात्परत्वाच्छतुः 'लसार्वधातुक' (३७३० ) इति निघातः । ३७२० उदात्ततु ततः परे, एकाच इत्यनुवृत्तेः। अष्टनो। दीर्घान्तादष्टनः परा सर्वनामस्थान. विभक्तिरुदात्ता । “फल्युपोत्तमम्' इत्यत्यापवादः । अष्टन्शब्दो घृतादित्वादन्तोदात्तः । तेन उत्तरार्थमनुवर्तमानस्यान्तोदात्तादित्यस्येहापि नान्वयः । दीर्घात्किम् । अष्टभिः। इह "झल्युपोत्तमम्' इति स्वरः। ननु चात्रापि 'अष्टन आ विभक्तो' इत्यनेन भवितव्यं तद्विधौ विकल्पस्याभावादिति चेत्सत्यम् । इदमेव दीर्घग्रहणमष्टन प्रात्वविकल्पं ज्ञापयति । नित्ये वात्वे व्यावाभावादीर्घग्रहणमनर्थकं स्यात् । कृतात्वस्य षट्संज्ञा च ज्ञापयति । अन्यथा ह्यात्वपक्षे सावकाशोऽष्टनः स्वरः परत्वादनात्वपक्षे षट्स्वरेण बाधिष्यत इति किं दीर्घप्रहणेन । जानतीति । 'ज्ञाजनोर्जा' इति जादेशः । 'श्राभ्यस्तयोरातः' इति नाकारलोपः । अत्र प्रत्ययस्वरेण शत्रन्तमन्तोदात्तम्। कृण्वत इति । 'धिन्विकृराव्योर च' । तुदन्तीति । तुदादित्वाच्छः । 'पाच्छीनद्योः-' इति नुम् । प्रत्युदाहरणे व्यङ्गविकलतां परिहरति एकादेशोऽत्रोदात्त इति । तुद. न्तीत्यत्र शे कृते तस्मात्परस्य शतुरदुपदेशात्परत्वाद् 'तास्यनुदात्तेत्-' इति निघाते 'एकादेश उदात्तेनोदात्तः' इत्युदात्तत्वम् । अस्मिन्कर्तव्ये तस्यासिद्धत्वं नास्ति अनुम् इति प्रतिषेधाज्ज्ञापकात् । न ह्येकादेशस्वरेण विना शत्रन्तं सनुम्कमन्तोदात्तं भवति । षट्सम्ज्ञासूत्रे भाध्ये ध्वनितम् । तेनोत्तरार्थतयाऽनुवर्तमानस्यापि 'अन्तोदात्ता'दित्यस्य न बाधः । अत एव 'अष्टौ' इत्यत्र 'एकादेश उदात्तेन' इत्यन्तोदात्तत्व. सिद्धिः । 'झल्युपोतम'मित्यस्याऽपवादोयमिति स्पष्टं भाष्ये । [ अत एवेदं समासादौ न प्रवर्तते ] । दीर्धात्किम् ? अष्टभिः । "झल्युपोत्तम मिति स्वरः । शतुरनमो। अनुमिति बहुव्रीहिः । शतुर्लसार्वधातुकेति । न चाऽन्तरङ्गत्वादेकादेशे कृतेऽव्यपवर्गः, अन्तर ङ्गपरिभाषाया अनित्यत्वात् । न चैकादेशस्वरोऽस्मिन्स्वरेऽसिद्धः, 'अनुम' इति निषेधे नाऽसिद्धत्वाऽभावात् । न ह्येकादेशस्वरेण विना सनुम्कमन्तोदात्तं भवति । [ इदं च सामान्यापेक्षम् । तेनान्तरङ्ग एकादेशस्वरः सिद्धो वाच्य इति सिद्धम् ] । 'अनुम' इति च श्रुतत्वाच्छतुरेव विशेषणम्, तेन 'मुञ्चता' इत्यादौ स्वर. प्रवृत्तिः । 'अन्तोदत्ता'दिति तु तदन्तस्यैव विशेषणम् । अन्यथा 'तुदती'त्यत्र न स्यात् । अत एव नम्प्रतिषेधः सार्थकः । अत्र वार्तिकं 'बृहन्महतोरुपसङ्ख्यान'मिति ।