________________
५१४]
सिद्धान्तकौमुदी। [प्रत्ययस्वरएभिभिन्तमः । मन्वादेशे न । अन्तोदात्तादित्यनुवृत्तेः । न च तत्रान्तोदात्तताप्यस्तीति वाच्यम् । 'इदमोन्वादेशेऽशनुदात्तस्तृतीयादो' (३५०) इति सूत्रेणानुत्तस्य प्रशो विधानात् । प्र ते' बभ्र । माभ्यां गा अनु । 'पद्दनोमास्हृन्निश्' ( २२८ ) इति षट् पदादयः । पन्या भूमि': । दद्भिर्न जिह्वा । अहरहर्जायते मासिमासि । मनश्चिन्मे हृद भा । अप् । अपां फेनेन । पुम् । अभ्रातेव पुंसः । है। राया वयम् । रायो धर्ता विवस्वतः । दिव् । उप स्वाग्ने दिवेदिवे। ३७१८ अष्टनो दीर्घात् ( ६-१-१७२) शसादिविभक्तिरुदात्ता। अष्टाभिर्दशभिः । इत्यर्थः । पञ्चमीनिर्देशात्परस्यैव ग्रहणे प्राप्त वचनम् । तेनाक्षयूरित्यादौ विभक्तरावु. दात्तत्वं न । अत्र हि अक्षर्दीव्यतीति क्विप् । अन्तरङ्गत्वादूरू यण उपपदसमासत्वात् कृत्स्वरेणान्तोदात्तोऽयम् । अन्वादेशे नेति । अत एव ‘स वेकाचः-' इत्यपि स्वरो न । यदि स्यात्तहीहान्तोदात्ताधिकारो व्यर्थः स्यात् । प्र ते बभ्र इति । भिन्ना ऋक् अन्वादेशप्रदर्शनार्थ माभ्यामित्यत्रोक्ता । माभ्यामिति । अत्रे पूर्वार्धर्चे बभ्रशब्देनोक्लयोरिहेदमा परामर्शऽप्यन्वादेशोऽस्त्येव । अन्वादेशश्च कथितानुकथित. मात्रं न त्विदमा कथितस्येदमैवानुकथनमिति भाष्योक्तेः । षट्पदादय इति । न मित्यर्थः । पञ्चमीनिर्देशादन्यस्यैव प्रहणे प्राप्ते वचनम्। 'स्वरविधौ व्यन्जनमविद्यमानव दिति परिभाषा तु अन्तोदात्तानुदात्तादिव्यवहारे एव प्रवर्तते । अत एव 'कर्षात्वतः' इति मतुम्निर्देशश्चरितार्थ इति प्रागेव निरूपितम् । अक्षवेति । अत्र विपि विवक्षिते ऊडनुदात्तो निपायते । ततो यणि उपपदसमासे कृत्स्वरेणान्तोदात्तोऽयम् । किपि परत ऊठि तु अनुनासिकादौ प्रयय ऊठस्वरः सतिशिष्टः स्यात् । तथा च स्योनशब्दोऽन्तोदात्तो न स्यात् । उदात्तनिपातने चेदभेव भाष्यं प्रमाणम् । अत एव प्रयोगे ऊठ उदात्तत्वश्रुतिः, अन्यथा स्वरितः स्यादित्याहुः। प्र ते बभ्र इति । मा-आभ्यामिति च्छेदः । बभ्रूशब्देनोक्तयोरिदमा परामर्शादत्रान्वादेशो. ऽस्ति । कथितानुकथनस्यैव तत्त्वात् । षट्पदादय इति । सूत्रोपात्ताः षडित्यर्थः । तेन वार्तिकस्थानामपि प्रहणे न दोषः । एकाच इत्यनुवृत्त्यैतदर्थलाभः । तेन 'श्रासनि' उदनि' इत्यादि मध्योदात्तमेव । पदाादेशा अन्तोदात्ता निपात्यन्ते । इदं सूत्रं 'लिति' इत्यस्य पूर्वविप्रतिषेधेनाऽनुवृत्त्या वा बाधकम् । तेन 'त' इत्यत्र विभक्त्युदात्तत्वमेवेति 'प्राग्दिशः' इति सूत्रे भाष्यकयटयोः स्थितम् । इदमो हिलि लित्त्व. सामार्थ्याल्लित्स्वर एवेत्याहुः । अष्टनो । अष्टन्शब्दो घृतादित्वादन्तोदात्त इति