________________
................
प्रकरणम् ] सुबोधिनी-शेखरसहिता [५१३ प्रहणं शस्परिग्रहार्थम् । प्रतीचो बाहुन् । ३७१७ ऊडिम्पदाद्यप्पुप्रैद्युभ्यः । (६-१-१७६ ) एभ्योऽसर्वनामस्थानविभक्तिरुदात्ता । प्रष्ठौहः । प्रष्ठौहा । *ऊव्युपधाग्रहणं कर्तव्यम् । इह मा भूत् । अतधुवा । अक्षयुधे । इदम् । पदान्तोदात्तत्वं प्राप्तम् । शस्परिग्रहार्थमिति । शसादिग्रहण तु न कृतं नपुंसके शसि मा भूत , सुटि च यथा स्यादिति । ऊडिदम् । अत्रैकाच इति वर्तत अन्तोदात्तादिति च । एकाजन्तोदात्तेभ्यः परा सर्वनामस्थानावभक्तिरुदात्ता स्यात् । प्रष्ठौह इति । 'छन्दसि सहः' । 'वहश्च' इति रिवः । 'वाह ऊठ' । उपपदसमासे प्रष्ठवाढ्शब्दो 'गतिकारकोपपदात्कृत्' इत्यन्तोदात्तः । अत्र प्रष्टौशब्दस्यानेकान्त्वेऽपि ऊल् शब्दस्यकाच्त्वमेव । ऊठ्यपधाग्रहणमिति । उपधाभूत ऊत् गृह्यते न त्वन्त्य इति वाच्यम् , शस्परिग्रहार्थाऽसर्वनामस्थानग्रहणसामर्थ्यात्तत्राऽपि प्रवृत्तः। न च 'पराच' इत्यादौ सावकाशमिदम् , अनिगन्तपूर्वपदे 'चौ' इत्यस्याऽप्रवृत्तवक्ष्यमाणत्वात्, तत्र 'अनिगन्तोऽञ्चतौ' इत्यस्यैवेष्टत्वादिति वाच्यम् , 'अनिगन्तोऽञ्चती' इति पूर्वपदप्रकृतिस्वरस्य सतिशिष्ट चुस्वरबाधकरववदेतस्यापि बाधकत्तेन तत्रैतद. प्रवृतरित्याहुः । केचित्त्ववाऽन्तोदात्तादित्यपि वर्तते, अग्रेऽनुवृत्तिदर्शनेनाऽत्रापि तत्सम्बन्धात् । एवञ्चाऽन्तोदात्तोत्तरपदभूताऽञ्चेः परेत्यर्थः । अत एव 'पराचा' इत्या. दावपत्तिः । 'अनिगन्तोऽधतौ' इति पूर्वपद प्रकृतिस्वरेणाऽऽयु दात्त वात् , अञ्चेरन्तो. दात्तत्वं सामाद्विभक्त्युत्पत्तिकालावच्छिन्नं ग्राह्यमित्याहुः । ऊडिदम । अत्रकाच इति अन्तोदात्तादिति च वर्त्तते । तत्रैकाप्रहणमूठो न विशेषणम् , अव्यभिचारात्। तद्धटितसमुदायस्य विशेषणत्वेऽपि न क्षतिः। अस्ति हि प्रष्टौहशब्दे तद्धटितो. ऽर्थवान् समुदाय 'ऊ'हिति । एवं पदायंशेऽपि उपात्तानामेव विशेषणम्, न विभक्त्याक्षिप्तप्रकृतेः । अत एव 'ब्राह्मणपदा' इत्यादावन्तोदात्तत्वसिद्धिः । इदमेव ध्वनितुं वृत्त्यादिषु 'जूरा इत्यनुदाहृत्य 'प्रष्ठौहः' इत्युदाहृतम् । न च 'सावेकाचः' इत्यनेन सिद्धत्वात्तन्नोदाहृतम्, शसि तदप्राप्तेः । एकाच इति किम् ? 'अन्यरेनान्कन्यानामभि'. रित्यादौ एनानित्यस्य सर्वानुदात्तत्वं यथा स्यात् । यद्यपि 'प्राग्दिशः' इति सूत्रस्थ. भाष्यादत्र तृतीयादिग्रहणमनुवर्तते इति प्रतीयते, तथापि तदेकदेश्युक्तिः, तत्रैव भाष्ये 'इत' इत्यत्रतत्प्रवृत्त्युक्तः, 'अपो याचामि पुंसः पुत्रानुतरायो देवी इतः पिशा वच्छसे' इत्यादिलक्ष्यविसंवादाच्च । अन्तोदात्तारिकम् ? अन्वादेशे 'श्राभ्या'मित्यादी एतन्मा भूत् । 'सावेकाचः' इति तु नात्र, सौ 'ए' इति रूशत् । प्रष्टौह इति। प्रष्ठवादशब्द उपपदसमासेनाऽन्तोदात्तः । ऊठयपधेति । उपधाभूतस्यैवोठो प्रहण.