________________
५१२] सिद्धान्तकौमुदी। [ प्रत्ययस्वर दिर्षिभनिरुदात्ता वा स्यात् । परमवाचा । ३७१६ अञ्चेश्छन्दस्यसर्वनाम स्थानम् । (६-१-१७० ) अञ्चः परा विभनिरुदात्ता । इन्द्रो दधीचः । चाविति पूर्वपदान्तोदात्तत्वं प्राप्तम् । तृतीयादिरित्यनुवर्तमाने असर्वनामस्थानदात्तत्वं न भवति किं त्वव्ययपूर्वपदप्रकृतिस्वर एव भवतीत्यर्थः । उत्तरपदप्रहगां तु एकाचवेनोतरपदं विशेषयितुम् । अन्यथा समासविशेषणं स्यात् । तथा च शुनः ऊर्ध्वं च श्वोर्क इत्यादावेवायं विधिः स्यात् । एकाच किम् । राजषदा । षष्ठीसमासात् टाप् । दधीच इति । दध्यच्चतीति 'ऋत्विग्-' आदिना किन् । 'अनिदिताम्-' इति नलोपः । 'अचः' इत्याकारलोपः । 'चौ' इति दीर्घ वम् । अत्र 'चौ' इति पूर्वपरमवाचेति । पक्षे वाशब्द उदात्तः । अन्तोदात्तात्किम् ? वाचा । नञ्तत्पुरुषः । अम्ययपूर्वपदप्रकृतिस्वरोऽत्र । उतरपदग्रहणमेकाच्वेनान्तोदात्तत्वेन चौत्तरपदं विशेष. यितुम् । अन्यथा समासो विशेष्येत, तथा सति शुन ऊ:-'श्वोर्जा' इत्यादावेव स्यात् । एकाच्किम् ? राजदृषदा । षष्टीसमासः। अनिसल्यादि किम् ? अमिचिता। उपपदसमासः । कृदुत्तरपदप्रकृतिस्वरेण चिच्छब्द उदात्तः। यत्र तु समासघटकपद. मात्रघटितविग्रहाऽभावेनैव नित्यसमासस्तत्र भवत्येवायं विकल्पः । यथा 'अवाचा ब्राह्मणेन' । अविद्यमाना वाग्यस्येति विप्रहः । बहुव्रीही 'नसुभ्या'मित्यन्तोदात्तत्वम् । इदञ्च वृत्त्याद्यनुरोयेन व्याख्यातम् । 'उपपदमति'विति सूत्रे भाष्ये तु विप्रहाऽभावेन यो नित्यसमासस्ततोऽन्यत्रायं विकल्पः । अन्यथा 'उपखेन'इत्या. दावव्ययीभावेऽप्ययं विकल्पः स्यादित्युक्तम् । एवञ्च बहुव्रीही 'अवाचा ब्राह्मणेन' इत्यत्रापि विकल्पो न भवत्येवेति प्रतीयते इति दिक् । अश्वेश्छन्दस्य । 'शसादि'रिति नोक्तम् । नपुंसके शसि मा भुत्, सुटि च यथा स्यादिति । 'अचे' रित्यत्रेकः कित्त्वेऽपि नलोपाऽकरणं सौत्रत्वात् । यत्तु सनकारो विवक्षितः, छन्दसि विधिर्भाषायां 'न गोश्व'न्निति निषेधः, 'अलिति निर्देशन तस्यापि नलोपाऽभावे एव प्रवृत्तेरिति व्यवस्थेति, तन्न, 'प्रतीचो बाहू नित्यादिलक्ष्यविरोधात् , 'अनिगन्तोऽवती' इति सूत्रस्थाऽऽकरविरोधाच्च । अत्रोत्तरपदादिति वर्तते । तेनोत्तरपदभूताऽचत्यन्तात्परा विभक्तिरित्यर्थः । तेन केवलाऽश्चतः विपि 'अग्भ्या'मित्यादौ नाऽस्य प्रवृत्तिरित्याहुः । दधीच इति। दध्यञ्चति दध्यछ् । 'ऋत्वि' गित्यादिना क्विन् । चावितीति । तथा च तदपवादोऽयमिति भावः । लुप्ताऽ कारनकारेऽश्चतावित्यर्थेन तस्यापि विभक्त्युत्पत्त्युत्तरकालमेव प्रवृत्तारेत्याशयः । न च पूजायां दध्यच्चा' इत्यादाविदं सावकाशम् , तत्र 'न गोश्व'न्निति निषेधेनाऽस्याऽप्रवृत्तः । न चैवमपि 'दध्यग्म्या मित्यादी भस्य सावकाशत्वेन 'दधीच' इत्यादौ परत्वाच्चुस्वरो दुर्वार.