SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सुबोधिनी-शेखरसहिता। [५११ एकाचः किम्-विधत्ते राजनि स्वे । तृतीयादिः किम्-न ददर्श वाचम् । ३७१५ अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे । (६-१-१६६) नित्याधिकारविहितसमासादन्यत्र यदुत्तरपदमन्तोदात्तमेकाच ततः परा तृतीयाभवतीत्यर्थो भवति । भवति चायमल्लोपे कृते एकाच । राज इति । राजशब्द आद्यदात्त । 'कनिन्युषितक्षिराजिधन्विद्यप्रतिदिवः' इति कनिनन्तत्वात् । अन्तोदात्ता । एकाच इति तिते तृतीयादिविभक्तिरिति च । नित्यशब्दः स्वर्यते तेन नित्याधिकारगतिर्भवतीत्याहुः । नित्याधिकारेत्यादि । अनित्यसमासे किम् । अग्निचित् । 'अग्नौ च' इति विप्प्रत्ययः । उपपदसमासः। 'गतिकारकोपपदात्कृत्' इति कृदुतरपदप्रकृतिस्वरेण चिच्छब्द उदात्तः । अधिकार ग्रहणं किम् । विप्रहाभावमात्रेण यो नित्यसमास-तत्र पर्युदासो माभूत् । अवाची 'ब्राह्मणेन । 'बहुव्रीही नसुभ्याम्' इत्यन्तोदातत्वम् । अत्र विभक्तवैकल्पिक उदात्तो भवत्येव । अन्तोदातात्किम् । अवांचा । नसमासोऽयं न तु बहुव्रीहिः । तेन 'नसुभ्याम्' इत्यन्तोप्रथमैकवचनप्रकृतेः स्थान तृतीयादिप्रकृतेरविधानात् । स्पष्टश्चेदं 'न गोश्वन्निति सूत्रे, प्रकृते च भाष्ये । किम् च काभ्यां कुलाभ्यामित्यादावेतदप्रवृत्ती रूपविवक्षाफलम् । रूपग्रहणे प्रमाणन्तु सनमीबहुवचनग्रहणे 'न गोश्व'निति निषेधो ज्ञापक इति भाध्य. मेव । स्यादेतत् , स्त्रियाम् 'श्राभ्या'मित्यादौ 'एभिः' एषामित्यादौ चाऽन्वादेशे सर्वानुदात्तत्वं न लभ्येत, 'मावेकाचः' इत्यस्य प्राप्तेः। श्रासु एषु इति हि सौ रूपम् । न च प्रकृतसूत्रस्थकैयटोत्या अत्राऽन्तोदात्तत्वमेवेष्टमिति वाच्यम् , 'एभिरग्ने पिबसि त्वमेषा मित्यादिवैदिकप्रयोगविरोधात् , 'अन्ये त्वि'त्युक्त्या तेनाऽपि तत्राऽरुचिबोध. नाच्च । न च विभक्तरुदात्तत्वे शेषनिघातेन प्रकृतेरनुदात्तत्वे सिद्ध अशादेशस्याऽनुदात्त. त्वविधानसामर्थ्यादन्वादेशे विभक्तिस्वरो नेति वाच्यम् , अस्त्रियाम् 'आभ्या'मित्यादी. चारितार्थ्यात् । न ह्या 'सावेकाचः' इति प्राप्नोति। तत्र हि सप्तमीबहुवचने एषु इति रूपं तत्र ए इति, न च तादृगिहास्ति, नापि तस्य विकारः। न च स्त्रियाम् 'आसु' इति रूपस्य सत्त्वेन प्रवृत्तिर्दुवारा, अर्थभेदात् । न च 'न गोश्वन्' इति निषेधाद् 'एभिः' इत्यादौ न दोष इति वाच्यम् , प्रथमैकन चनेऽवर्णान्तत्वाऽभावात् । न च 'ऊडद'मित्यस्य दुरित्वेन सर्वानुदात्तत्वं नेष्टमिति वाच्यम् , तत्रान्तोदात्तादित्यनुवृत्त्या तदप्राप्तेः । अत्रै काचः प्रेयस्यैकाच एव परेत्यर्थः कार्यः । तेन 'चित्सु' 'अग्निचिता' इत्यत्र न । अन्तोदात्तादु । नित्यशब्दस्य स्वरितत्वेनाऽधिकारगल्या नित्याधिकारविहितसमास एव गृधत इत्यत आह नित्येत्यादि । इदच्च वृत्तिपदमजयोंः स्पष्टम ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy