SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ५१० ] सिद्धान्तकौमुदी। [प्रत्ययस्वर३७१४ सावेकाचस्तृतीयादिविभक्तिः । (६-१-१६८) साविति सप्तमीबहुवचनम् । तत्र य एकाच ततः परा तृतीयादिविमनिरुदासा । वाचा विरूपः । सौ किम्-राज्ञेत्यादौ एकाचोऽपि राजशग्दास्परस्य मा भूत् । राज्ञो नु ते । निर्देशः । तिसृभ्यः परस्य जसोऽन्त उदात्तः स्यात् । तिन इति । अन्तोदात्तत्रिशब्दस्य स्थाने तिस्रादेशः स्थानिवद्भावादन्तोदात्तः । 'अनुदात्तौ सुप्पितौ' इति जसनुदात्तः । अत्र 'अचि र ऋतः' इति रेफादेशे कृते 'उदात्तस्वरितयोर्यणः' इति जसः स्वरितत्वं प्राप्तमनेन बाध्यते । सप्तमीबहुवचनमिति। न प्रथमैकवचनम्, व्याख्यानात् । राति । सावित्येतस्मिन् सति एकाचः परा तृतीयादिविभक्तिरुदात्ता इति। अन्तोदात्तत्रिशब्दस्यादेशस्तिसाऽपि तथा, तस्य 'अचि र:-' इति कृते 'उदात्तस्वरितयोर्यणः' इति जसः स्वरितत्वं प्राप्तमनेन बाध्यते । सावकाचः । सौ परे यदेकापं ततः परेत्यर्थः । सौ य एकाच तस्मात्परेत्यर्थे निष्पन्नेऽर्थवत्परिभाषया प्रकृतेऽर्थवत एव सम्भवाच्च सौ यदर्थविशिष्टमेकाञपं तदर्थविशिष्टात्तदेकाज्रपात्परा विभक्तिरिति फलितम् । राति । राजन्शब्दः कनिनन्तत्वादाद्यदात्तः । न च 'एकाचो विहिता या विभक्तिरित्यर्थान्न दोषः। विहितविशेषणे प्रमाणाऽभावात् । एकाग्रहणव्यावर्त्यमप्येतदेव । तदभावे हि सौ वर्तमानाच्छन्दात्परेत्यर्थः स्यात् । सावित्यस्य द्वाभ्यामित्यादिव्यावर स्यात् । सप्तमीबहुवचनमिति किम् ? याता यायामित्यादि । प्रथमैकवचनप्रहणे तु तत्र यानिति रूपम् , संयोगान्तलोपस्याऽसिद्धत्वेन यान्तिति वा। न हि तस्मादत्र शस्विभक्तिः । विकृतिग्रहणेन प्रकृतेरग्रहणात् , आगमसहितग्रहणेन केवलस्याऽग्रहणाच्च । तन्मध्यपतितन्यायोऽपि केवलेन विशिष्टप्रहणं बोधयति, न त्वेतावता प्रकृते इष्टसिद्धिः । न च रूपविवक्षामकृत्वा सौ य एकाच्ततः परेत्यर्थ एवास्त्विति वाच्यम् , दोःशब्दः सौ एकाच् , तस्य दोषनादेशे ततः परा विभक्तिरुदात्ता स्यात् , इष्यते तु मध्योदात्तं दोषभ्यामिति । अयं सप्तमीबहुवचनपक्षेऽपि रूपविवक्षाऽभावे दोषः । अस्ति च दोःषु इत्यत्र य एकाच् तस्मात्परा विभक्तिरिति । नन्वेवमपि [ सप्तमीबहुवचने दृष्ट ] दोःशब्दादेशत्वेन स्थानिवद्भावा. प्रवृत्तिर्दुर्वा।। न चेष्टापत्तिः। तैत्तिरीये 'दोषभ्यां वाहा' इति मध्योदात्तस्यैव पाठात्। अत एव 'न गोश्वन्' इति सूत्रे 'शुनः' 'शुना' इत्युदाहरणं साच्छते । अन्यथा सप्तमीबहुवचने नलोपस्याऽसिद्धत्वेऽपि श्वन्शब्दातृतीयादिविभक्केरभावादसतिः स्पष्टैव, मम त्वेकदेशविकृतन्यायेन न दोष इति चेन, लक्ष्यानुरोधेनावृत्त्या यदेकान तत एकाच एव परेत्यर्थेन वारणात् । 'वियेत्यादौ तु प्रथमैकवचनप्रहणेऽपि न दोषः,
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy