________________
प्रकरणम् ] सुबोधिनी-शेखरसहिता। [५०६ चितस्तद्धितस्यान्त उदासः। पूर्वेण सिद्धे जित्स्वरबाधनार्थमिदम् । कौआयनाः । ३७१२ कितः । (६-१-१६५) कितस्तद्धितस्यान्त उदात्तः । यदानेयः । ३७१३ तिसृभ्यो जसः । (६-१-१६६) अन्त उदात्त: । तिम्रो द्यावः सवितुः । तस्यैकाच्वादनर्थकं तत् स्यात् । अन्यके इति। 'अव्ययसर्वनानाम्-' इत्यकच , ततः परा टिरुदात्ता । एवं यके तकदित्यत्रापि यत्तच्छन्दादकच् । बहुच उदाहरणं तु बहुपटव इत्यादि ज्ञयम् । मित्स्वरबाधनार्थमिति । फलश्चकारो 'बातच्फओरस्त्रियाम्' इति विशेषणे चरितार्थः । अकारो वृद्धौ । तत्रासत्यस्मिन् परत्वाद् बित्स्वरः स्याद् इति भावः । कोजायना इति । कुञ्जस्यापत्यानि बहूनि । 'गोत्रे कुञादिभ्यश्चफञ्' 'व्रातफलोरस्त्रियाम्' इति नः । 'ज्यादयस्तद्राजाः' तद्राजस्य बहुषु लुक् । आग्नेय इति । अग्नेर्डक् । तिसृ । अर्थगतं बहुत्वं शब्द आरोप्य बहुवचनचतुःष्करोतीत्यादौ 'रात्सस्ये'त्यस्याऽसिद्धत्वात्सुजस्त्येव । अन्यके इति। अकेच् । ततः पर उदात्तः । एवं यके तकदित्यत्राऽपि बोद्धयम् । 'तद्धितस्य कित' इत्येकं सूत्रम् , 'गोत्रे कुआदिभ्यः' इति सूत्रे भाष्ये 'योगविभागः कर्तव्यः' इत्युक्तेः । तदनुसारेण व्याचष्टे चितस्तद्धितस्येति । त्रित्स्वरबाधनेति । फश्चित्त्वन्तु 'बातच्फओ'रित्यादी विशेषणाऽर्थ सावकाशम् । अन्यथाऽऽश्वायनादपि ध्यः स्यादिति भावः । मित्त्वमपि वृद्धधर्थ सावकाशम् । ततश्चित्स्वरं बाधित्वा परत्वानिरस्वरः प्राप्तोऽनेन बाध्यत इति तात्पर्यम् । कौञ्जायना इति । कुञात् उफनि तदन्ताद् 'व्रातच्फयो'रिति ध्ये ज्यादीनान्तद्राजत्वाद्बहुषु लुक् । कितः। तद्धितस्येति किम् ? चक्रतुः। कित्त्वातिदेसादन्तोदात्तत्वं माभूत् । यत्तु प्रत्युदाहरन्ति-इत्यः। क्यप् । पित्त्वस्य तुकि कित्त्वस्य गुणनिषेधे सावकाशत्वात् पित्स्वरं बाधित्वा परत्वादयं स्यादिति, तन्न, क्यप्वेदन्तोदात्तस्तदा 'व्रजयजो वे क्यब'ति नियमेन वारयितुं शक्यत्वादित्याहुः । कितः किम् ? अविदूमम् । तिसृभ्यो जसः । बहुवचनं प्रयोगभेदेन शब्दवाहुल्यात् , 'ऋनेम्यः-' इतिवत् । यत्तु वार्तिककृतोतं 'तिसृभ्योजस्प्रहणानर्थक्यमन्यत्रास्याऽप्राप्तः, बहुवचनविषयत्वादस्यैकवचनद्विवचनयोरभाव एव, शसि 'उदात्तयण' इति सिद्धम् । अन्या हलादयः, तत्र 'षट्त्री'ति, 'झल्युपोत्तम मिति च "सिद्ध'मिति तन्न, अतितिस्रावित्यादिव्यावृत्तेः फलस्य सत्त्वात् । तदुक्तं भाष्यकृता'उपसमस्तार्थमेके जसो प्रहभिच्छन्ति-अतितिस्रौ' इति । 'तस्मादिति परिभाषासत्त्वाद्विहितविशेषणाऽसम्भव इत्याशयः। अनेन पूर्ववार्तिकेन कृतं प्रत्याख्यानमसतिमिति सूचितम् । अतितिसृशब्द:-'अतेरकृत्पदे' इत्यत्र 'अतर्धातुलोरे वाच्य'मित्युक्तेरन्तोदात्तः। तस्य यणि 'उदात्तस्वरितयोः' इत्यनेनौकारः स्वरितः । तिम्र