SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ ५०८ ] सिद्धान्तकौमुदी। [प्रत्ययस्वर अथ स्वरप्रकरणशेषाः। ३७०८ । आधुदात्तश्च । (३-१-३) प्रत्यय प्रायुदात्त एव स्यात् । अग्निः । कर्तव्यम् । ३७०६ अनुदात्तौ सुप्पितौ । (३-१-४) पूर्वस्यापवादः । यज्ञस्य । न यो युग्छति । शप्तिपोरनुदात्तत्वे स्वरितप्रचयौ। ३७१० चितः। (६-१-१६३) अन्त उदात्तः स्यात् । चितः सप्रकृतेर्वहकजर्थम् । चिति प्रत्यये सति प्रकृतिप्रत्ययसमुदायस्यान्त उदात्तो वाच्य इत्यर्थः । नभन्तामन्यके समे । यके सरस्वतीमनु । तकरसुते । ३७११ तद्धितस्य । (६-१-१६४) अग्निरिति । 'अनिलोपश्च' इति निप्रत्ययः । कर्तव्यमिति । तव्यप्रत्ययः । तव्यतस्तु तित्त्वात्स्वरितो वक्ष्यते । न च तव्यस्यापदात्तत्वे 'उदात्तादनुदात्तस्य' इति स्वरितो भवत्येवेति चेत्सत्यम् । किं त्वयमसिद्धः तिस्वरस्तु सिद्ध इति प्रवृत्त्यप्रवृत्तिभ्यां महान् विशेषः । तव्यतस्तित्त्वमेव शेषनिघातपरिभाषाया यथोद्देश. प्रवृत्तौ ज्ञापकमिति ध्येयम् । युच्छतीति । युच्छ प्रमादे । 'धातोः' इत्यन्तोदात्तः । ततः परः शप् 'उदात्नादनुदात्तस्य' इति स्वरितः । 'खरितात्सहितायामनुदात्तानाम् इति तिपः प्रचयः । चितः । सप्रकृतेरिति । नन्विदं कथं लभ्यमिति चेच्छृणु। चित इत्यवयवादेषा षष्ठी न कार्यिणः । चिद्योऽवयवस्तस्य संबन्धी यः समुदायः स कार्थी अथवा चिदस्यास्ति स चितः । अर्शप्रादेराकृतिगणत्वादच् प्रत्ययः । षष्ठयर्थे प्रथमा । तेन चिद्वतः समुदायस्येत्यर्थः। अत्र च लिङ्गमकचश्चित्करणम् , अन्यथा त्यस्याऽनुवादकमेतत् । अनुदात्तं पदमेकवर्ज'मित्यस्यानुवादकमित्यन्ये । इति शान्तनवेति । इदं 'मात्रोपज्ञ' इति सूत्रे हरदत्तपन्थे स्पष्टम् । शन्तनुराचार्यः प्रणेतेति 'द्वारादीनाचेति सूत्रे हरदत्तः । इति फिदसूत्राणि । अथ प्रत्ययस्वराः। कर्त्तव्यमिति । तव्योऽयम् , तव्यत्तु तित्त्वात्वरितः। यद्यपि तव्यस्यापि श्रायुदात्तं शेषनिघाते कृते 'उदात्तादनुदात्तस्येति खरितो भवत्येव तथापि तस्याऽसिद्धत्वात्तन्निमित्तकशेषनिघाताऽप्रवृत्त्या, तित्त्वनिमित्तके च तत्प्रवृत्त्या महान फल विशेषः । युच्छतीति । युछ प्रमादे । प्रचय एकश्रुतिः । चितः सप्रकृतेरिति । अत्राऽर्थेऽकचश्चित्त्वं ज्ञापकम् । अन्यथा तस्येकाच्वात् प्रत्ययाधुदात्त वेनैव सिद्धौ तद्यथं स्यात् । हस्तः प्रमाणमस्य हस्तः। प्रमाणे ल इति लुक् । अत्र चित्वरो न, 'अन्तरङ्गानपीति न्यायात् । प्रत्ययलक्षणन्तु न, प्रत्ययस्याऽ. साधारणरूपाश्रयणाऽभावात् । कुण्डिनचोऽप्रत्ययस्यापि चितः सत्त्वात् । अनुबन्धलक्षणे खरे प्रत्ययलक्षणाऽभावस्य पूर्वमुक्तेश्च । हस्तशब्दश्च 'स्वाजशिटा'मित्यायुदात्तः ।
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy