SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः] सुबोधिनी-शेखरसहिता [ ५०७ एवरदीनामन्तः । एवमादीनामिति पाठान्तरम् । एव । एवम् । नूनम् । सह ते पुत्र सूरिभिः। षष्ठस्य तृतीये 'सहस्य सः' (1००६) इति प्रकरणे सहशब्द प्राथुदात्त इति प्राजः । तचिन्स्यम् । ८३ वाचादीनामुभावुदात्तौ। उभी. ग्रहणमनुदात्तं पदमेकवर्जमित्यस्य बाधाय। ८४ चादयोऽनुदात्ताः । स्पष्टम् । ८५ यथेति पादान्ते । तमिमभवो यथा। पादान्ते किम्-या नो अदितिः करत् । ८६ प्रकारादिद्विरुक्तो परस्यान्त उदात्तः। पटुपटुः । ८७ शेष सर्वमनुदात्तम् । शेषं नित्यादिद्विरुक्तस्य परमित्यर्थः । प्रप्रायम् दिवेदिवे । इति शान्तनवाचार्यप्रणीतेषु फिट्सूत्रेषु तुरीयः पादः । यथेति । यथाशब्दः पादान्तेऽनुदात्तः स्यात् । प्रकारादि । 'प्रकारे गुणवचनस्य' इत्यादिद्वित्वे पदस्यान्तोदात्तः स्यात् । पटुपटुरिति । ननु 'कर्मधारयवदुत्तरेषु' इति कर्मधारयवद्भावादेव 'समासस्य' इत्यन्तोदात्तत्वे सिद्धे कार्थमिदमिति वाच्यम् । तस्य पाणिनीयात्पूर्वप्रवृत्तत्वेनादोषात् । शेष प्रकारादिद्वित्वादन्यस्मिन्द्वित्वे परं सर्वमनुदात्तं स्यात् । इति चतुर्थः पादः । स्थात् । इदं सूत्रं व्यर्थम् , उपसर्गाणां निपातत्वेनैव सिद्धः। न च कर्मप्रवचनीयानां तदभावज्ञापनायेदम् , तेषामप्यायुदात्तत्वस्येष्टत्वात् । अभिश्चैवमादिषु पाठ्य इति बहवः । अत एव 'मानो मा अभिद्रुहन्निति मन्त्र 'एवमादीवामन्त' इति वेदभाष्यकृद्भिरकम् । स्पष्टश्चेदमुपसर्गसंज्ञासूत्रे भाष्ये । केचित्तु उपसर्गस्यैवाऽमेरायुदात्तत्वनिषेधो यथा स्यात् , कर्मप्रवचनीयस्य तु निपातत्वाद्भवत्येवेत्येतदर्थमिदं सूत्रमित्याहुः । एवादीनामन्तः । अहशश्वच्छन्दी गणे आद्यदात्तौ निपातौ वा। आदहस्खधामनु । काह मित्रावरुणा शश्वदिन्द्र योऽप्रथद्भिरिति प्रयोगदर्शनात् । तच्चिन्त्यमिति । चिन्ताबीजन्तु चिन्त्यम् । सहशब्दस्याऽपि निपातत्वादायुदात्तत्वमिति 'सहस्य सः' इति सूत्रे आकरात् । प्रयुज्यते च 'सह वै देवाना मिति । 'ते पुत्र सूरिभिः सहे'त्यत्र तु छान्दसमन्तोदात्तत्वमिति केचित् । 'वावादीनामभौ' इति सूत्रे उदात्तावित्यनुवृत्तिप्रदर्शनम् । इह त्रिसूच्यामादिशब्दः प्रकारे इत्याहुः । चादयोऽनु । निपाता इति वर्तते । नेह-पशुर्नेति । आधुदात्तत्वापवादोऽयम् । यथेतिपा । अनुदात्त इति वर्तते। 'शाकिनं वचो यथा' इत्यादौ छान्दसत्वान्नानुदात्तः। प्रकारादिति । 'प्रकारे गुणवचनस्ये त्यादिद्वित्वे इत्यर्थः । इदं कर्मधारयवद्भावसिद्धान्तोदात्तत्वानुवादकम् । शेषमिति । प्रकारादिद्विरुकादन्यद्विरुक्तमित्यर्थ इत्येके । 'अनुदाचंचे
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy