________________
५०६ ] सिद्धान्तकौमुदी। [फिदस्त्रेषु ७१ पारावतस्योपोत्तमवर्जम् । शेष क्रमेणोदात्तम् । पारावतः । ७२ धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूजलस्थानाम् । एषां चतुणों धूप्रभृतींश्चतुरो वर्जयित्वा शिष्टानि क्रमेणोदात्तानि । धूम्रजानुः । मुअकेशः । कालवालः । स्थानीपाकः । ७३ कपिकेशहरिकेशयोश्छन्दसि । कपिकेशः। हरिकेशः । ७४ न्यस्वरौ स्वरितौ । स्पष्टम् । न्यङ्कुत्तानः । व्यचक्षयरस्वः । ७५ न्यqदव्यल्कशयोरादिः । स्वरितः स्यात् । ७६ तिल्यशिक्यकाश्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः । स्वरितः स्यात् । तिलानां भवनं क्षेत्रं तिल्यम् । 'यतो नावः' ( ३७०१) इति प्राप्ते । ७७ बिल्वभक्ष्यवीर्याणि छन्दसि । अन्तस्वरितानि । ननो विल्वस्य उदतिष्ठत् । ७८ त्वत्त्वसमसिमेत्यनुच्चानि । स्तरीरुत्वत् । उत स्वः पश्यन् । नभन्तामन्यके समे। सिमस्मै । ७६ सिमस्याथर्वणेऽन्त उदात्तः । अथर्वण इति प्रायिकम् । तत्र दृष्टस्येत्येवंपरं वा। तेन वासस्तनुते सिमस्मै' इत्यूग्वेदेऽपि भवत्येव । ८० निपाता आद्युदात्ताः । स्वाहा । ८१ उपसर्गाश्चाभिवर्जम्। ६२
त्वत्त्व । एतानि सर्वानुदात्तानि । सिमस्य । सिमशब्दस्याथर्वणे वेदे उदात्तः । उपसर्गाश्चाभि । अभिशब्दं वर्जयित्वा उपसर्गा अायुदात्ताः स्युः । स्येत्यर्थः । पारावत इति। अत्र 'व'शब्दो नोदात्तः। कपिकेशह । भाषायां बहुव्रीहित्वात्पूर्वपदप्रकृतिस्वरः । तत्र हारे शब्द इनन्तत्वादाद्युदात्तः । कपिरन्तोदात्तः । केचित्तु निरुदकादेराकृतिगणत्वादनयोरन्तोदात्तत्वमाहुः । न्यस्व । 'न्यधी चेति. पूर्वपदप्रकृतिवरे कृते यणि 'उदात्तस्वरितयोरिति सिद्ध न्यग्रहणं तदनुवादकम् । तिल्यशिक्य । केचित्र मय॑शब्दं पठन्ति, तदयुक्तम् , 'तं त्वा हवन्त माः' इत्यादावाद्यदात्तदर्शनात् । 'तद्यतात्कर्मणः' इति सूत्रस्थवार्तिकेन यति 'यतोऽनावः' इत्यायदात्तत्वम् । यत्तु धान्यस्थाने धन्यं पठन्ति, तन्न, 'पत्यावैश्वर्ये' इति सूत्रे धान्य. मन्तखरितमिति वृत्तिमुपादायास्यैव सूत्रस्य हरदत्तेनोपन्यासात् , प्रयुज्यते च'धान्यमसि धनुहि'' इति । बिल्वभक्ष्य । भाषायां तु भक्ष्यवीय?' आधुदात्तौ । वीरेषु साधुरिति यत् , भक्षयतेयन्तादचो यत् । बिल्वः स्वरितान्तोऽन्तोदात्तो वा । केचित्तु 'बिल्व वस्ते'ति पठन्ति । अनुचानीति । सर्वानुदात्तानीत्यर्थः । अत्र सूत्रे छन्दसीति नानुवर्तते, 'अायुदात्तश्चति सूत्रस्थभाष्यप्रामाण्यात् । निपाता था। शुक्लीकरोतीत्यादौ च्यन्तानां निपातत्वेऽपि च्वेश्चित्त्वादन्तोदात्तत्वम् । उपसर्गाश्चाभिवर्जमिति । आधुदात्ता इत्यर्थः । अभिवर्ज किम् ? अभ्यभिहि, अभिरामम