________________
द्वितीयपादः ]
सुबोधिनी-शेखरसहिता ।
[ ५०१
त्पूर्वोऽस्स्येषां ते श्रनुपूर्वाः । तरतुः । ४४ शकुनीनां च लघुपूर्वम् । पूर्व लघु उदात्तं स्यात् कुक्कुटः । तित्तिरिः । खंजरीट: । ४५ नर्तुप्राण्याख्यायाम् । यथालक्षणं प्राप्तमुदात्तत्वं न । वसन्तः । कृकलासः । ४६ धान्यानां च वृद्धक्षान्तानाम् । श्रादिरुदात्तः । कान्तानाम् । श्यामाकाः । षान्तानाम् । माषाः । ४७ जनपदशब्दानामषान्तानाम् । श्रादिरुदात्तः । केकयः । सारङ्गकल्माषशब्दौ ‘लघावन्त' इत्यादिना मध्योदात्ताविति हरदत्त पन्धविरोधादित्याहुः । कल्याण इति । पर्यायेणादिमध्यायुदात्तौ । शकुनीनाम् । पचितीचिनाम् । पूर्वमिति । अन्यान्पूर्वमित्यर्थः । अत्राप्यादिरिति न संबध्यते पूर्वप्रहणात् । कुक्कुटेत्यादि । मध्योदात्तावेतौ । नर्तु । ऋतुवाचिनां प्राणिवाचिनां च यथालक्षणप्राप्तमुदात्तत्वं न । धान्यानाम् । धान्यवाचिनां वृद्धकषशब्दान्तानां चादिरुदात्तः । श्यामाकाः । माषा इति । अत्रोशीनरेत्यनेन तृणधान्यानामित्यनेन चायुदात्तत्वस्य सिद्धत्वाद् नैषादका राजमाषा इत्युदाहतर्व्यम् । फिटवृत्तौ तु सूत्रे चशब्दो न पठितः । वृत्तौ गुरुरुदात्त इति व्याख्यातं न त्वादिरुदात्त इति । नैषादकाः कालाक्षा इत्युदाहृतं च । यत्तु धान्यानामिति किं श्यामाका इत्युदाहृतं तत्र श्यामाके धान्यत्वाभावश्चिन्त्यः । जनपदा । जनपदवाचिनामजन्तानामादिरुदात्तः स्यात् । केकय इति । अत्र परत्वाद्यान्तस्यान्त्यात्पूर्वमिति स्वरेण भाव्यमतः अङ्गा वङ्गा इत्याहुः । श्रशब्दात्पूर्व इति । 'अवादे रिति वक्तव्ये 'अक्षुपूर्वाणामित्युक्तेः समानाधिकरणो बहुबीहिति भावः । ' अक्षुपूर्वे 'त्यत्र पञ्चमीतत्पुरुषसमासस्तु न, प्रज्ञावित्येव सिद्धे पूर्वग्रहणवैयर्थ्यापत्तेः, अनुवर्तमानफिष इत्यनेन श्रन्वयाऽनापत्तेश्च । शकुनीनाञ्च । पूर्वमिति । श्रन्त्यात्पूर्वमित्यर्थः । लघु पूर्वमित्यसमस्तं पदद्वयम् । अत्राप्यादिरिति न संबध्यते, पूर्वग्रहणात् । तेन कुक्कुटतित्तिरी - मध्योदात्तौ । कुक्कुटस्य वेदेऽन्तोदात्तपाठस्तु छान्दसः । तित्तिरियेजुः - शाखायां मध्योदात्तः पठयते । एतेन 'तित्तिरिशब्दोऽन्तोदात्त' इति प्राणिरजतादिसूत्रस्य हरदत्तः परास्तः । लघुपूर्वमिति बहुव्रीहिस्तु न, लघोरिति पञ्चमीनिर्देशेनैव सिद्धे पूर्वप्रहण वैयर्थ्यापतेः । 'लघोः पूर्व’मिति तत्पुरुषोऽपि न, सप्तमीनिर्देशेनैव सिद्धेः । नर्तुप्रा । ऋतुवाचिनाम्, प्राणिवाचिनाश्चेत्यर्थः । वसन्त इत्यादि । अनयोः 'लघावन्ते-' इति निषिद्धेऽन्तोदात्तत्वम् । एवञ्च 'कणेतमयूरशब्दौ लघावन्ते इति मध्योदात्तौ इति प्राणिरजतादिसूत्रस्थहरदत्तश्चिन्त्यः । खण्डिकादिसूत्रे 'उलूको मध्योदात्त' इति कैयटश्च । धान्यानाम् । वृद्धसञ्ज्ञकधान्यवाचिककारषकारान्तानामित्यर्थः । श्यामाका इति । 'उशीर दामेर कपालपलालशैवालश्यामा के 'ति सूत्रे श्यामाकप्रहणं त्वधान्यवाचकश्या