________________
५०० ]
सिद्धान्तकौमुदी। [फिसूत्रेषु यमन्या वृदः । माग उदाहरणम् । भाः प्रत्युदाहरणम् । ४२ लघावन्ते इयोश्च बह्वषो गुरुः । मन्ते लघौ, द्वयोश्च लघ्वोः सतोर्बह्नकस्य गुरुरुदात्तः । क याणः । कोलाहलः । ४३ स्त्रीविषयवर्णानुपूर्वाणाम् । एषां प्रमाणामायुदात्तः स्त्रीविषये । मल्लिका। वर्णः श्येनी । हरिणी । मधुशब्दाभवति । पूर्वेणैव सिद्धे नियमार्थमिदम् । राजविशेषस्य चेद् वृद्वस्यैवेसाहुः फिवृत्ती तु वृद्धस्य चेद्राजविशेषस्यैवेति नियमो दर्शितः। आङ्ग इति । अङ्ग इवायमानः । लघावन्ते । इह आदिरिति न संबध्यते तेनाऽनादेरपि गुरोरुदात्तः । अतएव वृषाकपिशब्दस्य गुरुरुदात्त इति 'वृषाकप्यनि-' इति सूत्रे वृत्त्यादिग्रन्थेषु विभावितम् । न च गुरूणां मध्ये य आदिरित्यर्थोऽस्त्विति वाच्यम् । 'अन्यतो डीष्' इति सूत्रे पमेयेति सूत्रमनुवर्तते । एवञ्च तेनैव सिद्ध 'वृद्धस्यवेति नियमार्थम् । तदाह अङ्गाः प्रत्युदाहरणमिति। वृत्तौ तु 'वृद्धस्य चेद्राजविशेषस्यैवेति नियम उनस्तचिन्त्यम् , पूर्वसूत्रे व्याघ्रग्रहणवैयपित्तेः । 'यमन्वा'शब्दः कृताऽऽदिवृद्धौ रूढः, न च व्याघ्रशब्दस्तथेति न वैयर्थमित्यन्ये । अत्राऽऽ इत्युदाहरणं चिन्त्यम् । तस्य 'जनपदशब्दादित्यजन्तत्वेनाद्यदात्तसिद्धेः । कालिग इत्युदाहार्यम् । तत्र हि 'यमगधे'त्यण् । अन्ये तु लुबन्तस्येत्याद्यनुवाऽस्य विधित्वमेवेच्छन्ति । लघावन्ते । अत्राऽऽदिशब्दो न सम्बध्यते, तेनाऽनादेरपि गुरोरुदात्तः। अत एव वृषाकपिशब्दोऽनेन मध्योदात्त इति वृषाकपीति सूत्रे वृत्तायुक्तम् ,खण्डिकादिषु उलूकशब्दोऽनेन मध्योदात्त इति कैयटेन चोक्तम् । वराहशब्दस्तु घृतादिरित्युक्तमेव । न च गुरूणां मध्ये य श्रादिरित्यर्थोऽस्त्विति वाच्यम् ,वृषाकप्यादावप्रवृत्त्या वृत्त्यादिविरोधात् , 'अन्यतो डोषिति सूत्रे 'सारङ्गकल्माषौ लघावन्ते इत्यनेन मध्योदात्तौ' इति हरदत्तविरोधाच । लघावित्यादि किम् ? वातप्रमीः, सभासजननम् , कपाली । नान्तत्वास लवुरन्तोऽत्र । बहुचः किम् ? देवः । गुरुः किम् ? किसलयम् । कल्याण इति । पर्यायेणाऽऽ. दिमध्यावुदात्तौ । स्त्रीविषयवर्णातुपू । क्वचित्फिवृत्तौ 'स्त्रीविषयवर्णनाम्नामक्षु' इत्यादिपाठः, सोऽपि मूले 'ध्यपूर्वस्येति सत्रे दर्शितः । मल्लिकेति । अस्य प्राप्तिमात्रेणेदमुदाहरणम् , प्राप्तस्याऽस्य परत्वात् 'मादीनाचे'त्यनेन बाधात् । 'ललना' इत्युदाहार्यम् । न चाऽनेनैव सिद्धे 'हस्वान्तस्य स्त्रीविषयस्येति, 'वर्णानान्तणे'ति च सूत्रं व्यर्थमिति वाच्यम् , अत्र बहुच इत्यनुवृत्तेर्न दोषः । अत एव 'श्येनी'त्यदाहरणं दत्त्वा 'हरिणी'त्युदाहणान्तरं दत्तम् । धवलादीन्यप्युदाहरणानि । नीलादयस्त्वन्तोदाता एवेति बोध्यम् । अत एव 'पिशङ्गसारङ्गकल्माषा-लधावन्ते- . 'इति मध्योदाता' इति कैयटादिदर्शनादिदं बाधित्वा पूर्वविप्रतिषेधेन पूर्वमेव प्रवर्तते