________________
द्वितीयपादः ]
सुबोधिनी - शेखरसहिता ।
अनयोरन्तः स्वरितो वा स्यात् । पचे उदात्तः । इति फिट्सूत्रेषु प्रथमः पादः । द्वितीयः पादः ।
२४ अथादिः प्राक् शकटेः । अधिकारोऽयम् । शक्रटिश कटयोरिति यावत् । २५ ह्रस्वान्तस्य स्त्रीविषयस्य । श्रादिरुदात्तः स्यात् । बलिः । तनुः । २६ नग्विषयस्यानि सन्तस्य । वनं न वायः । इसन्तस्य तु सर्पिः । नप् नपुंसकम् । २७ तृणधान्यानां च द्वयषाम् । यवामित्यर्थः । कुशाः । काशाः । माषाः । तिलाः । बह्नां तु गोधूमाः । २८ त्रः संख्यायाः । पच । चटवारः । २६ स्वाङ्गशि 1
[ ४६७
पवादोऽयं योगः । पक्षे उदात्त इति । उदात्रा इत्यनुवृत्तेः । इति प्रथमः पादः । विषयस्य । इसन्तवर्जितस्य नित्यनपुंसकस्यादिरुदात्तः स्यात् । सर्पिरिति । 'श्रर्चिशुचि -' इत्यादिना इसिः । तृण । तृणवाचिनां धान्यवाचिनां च व्यचामादिरुदात्तः स्यात् । अषिति अचः प्राचां संज्ञा । तदाह द्वयवामित्यर्थ इति । गोधूमा इति । 'लघावन्ते -' इति मध्योदात्तता । ब्रः संख्या । नकाररेफान्तायाः स्याऽल्पशब्दयोस्तावादेशौ यदा तदा प्रत्युदाहरणम् । पक्षे उदात्त इति । उदात्तग्रहणानुवृत्तेरिति भावः । इति प्रथमः पादः ।
1
अथ द्वितीयः पादः । हखान्तस्य स्त्रीविषयस्य । नित्यस्त्रीलिङ्गस्येत्यर्थः । बलिरिति । बलिशब्दोऽपि जरया श्लथचर्मणि, तनुश्च शरीरे नित्यस्त्रीलिङ्गः । ह्रस्वेति किम् ? नदी । स्त्रीति किम् ? मरुवीयुः । विषयेति किम् ? लघुः, बहुः । नब्विषयस्य । नपुंसकविषयस्य । 'स्त्रिया विषयस्य' 'नपोऽनिसन्तस्य ' इति पाठेन विषयपदानुवृत्त्यैव सिद्धे पुनर्विषयपदं लिङ्गव्यत्यय- प्रत्ययलोपान्यतरेण लिङ्गान्तरोपसङ्क्रान्तस्य वा विषयतामात्रेणैतत्प्रवृत्यर्थम्, यथा 'मधोस्तृप्ता इवासते ' इत्यादौ, यथा वा 'मध्वस्मिन्नस्ति मधुर्मासः ' ' मधोर्न च' इति यतो लुग्वार्तिकेन । ध्वनितञ्चेदम् 'ईच द्विवचने' इति सूत्रे भाष्ये । नबिति किम् ? मूः । विषयेति किम् ? लघुः । सर्विरिति । इंसिनन्तज्योतिःशब्दादौ तु नित्त्वादायुदात्तत्वमेव । तिला इति । यत्तु 'तिलोमाशब्दौ घृतादिपाठादन्तोदात्ता' विति 'संप्रोदचे 'ति सूत्रे कैयः, तच्चिन्त्यम् । 'तिलश्व में' इत्यादावायुदात्तस्यैव पठयमानत्वात्, उमाशब्देSपि 'मकरवरूढ'त्यनेन विशिष्य पर्यायेणाऽन्तोदात्तविधानात् । शालिवीही-घृता. दित्वादन्तोदात्तो । तृणेत्यादि किम् ? आम्रः । गोधूमा इति । अत्र परत्वादेव 'लघावन्ते-' इति मध्योदात्तत्वसिद्धेः पर्यायेणाद्यदात्तत्वसिद्धेवेदं विन्यम् । 'चणका'