SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ प्रथमपादः ] सुबोधिनी-शेखरसहिता [ ४६५ दक्षिणः । इह पर्यायेणाद्यन्तावुदात्तौ । ११ कृष्णस्यामृगाख्या चेत् । अन्त उदात्तः । वर्णानां तत्यायुदात्तस्त्रे प्राप्ते अन्तोदात्तो विधीयते । कृष्णानां व्रीहीणाम् । कृष्णो नो नाव वृषभः । मृगाख्यायां तु कृष्णो राज्यै । १२ वा नामधेयस्य | कृष्णस्येत्येव । श्रयं वा कृष्णो अश्विना । कृष्णर्षिः । १३ शुक्लगौरयोरादिः । नित्यमुदात्तः स्यादित्येके । वेत्यनुवर्तत इति तु युक्तम् । सरो' गौरो यथा पिब । इत्यत्रान्तोदात्तदर्शनात् । १४ अङ्गष्ठोदकवकवशानां छन्दस्यन्तः । अङ्गष्टस्य स्वाङ्गानामकुर्वादीनामिति द्वितीयस्योदात्तत्वे प्राप्तेऽम्तोदात्तार्थ आरम्भः । वशाग्रहणं नियमार्थं छन्दस्येवेति । तेन लोके श्रायुदात्ततेस्याहुः । १५ पृष्ठस्य च । छन्दस्यन्त उदात्तः स्याद्वा भाषायाम् । पृष्ठम् । १६ अर्जु नस्य तृणाख्या चेत् । उभवन्नन्तानामित्याद्युदात्तस्यापवादः । १७ स्य स्वाम्याख्या चेत् । यान्तस्यान्त्यात्पूर्वमिति 'यतो नाव:' ( ३७०१ ) इति द्यन्तौ स्यातां वेदे । कृष्णस्य । अस्यान्त उदात्तश्छन्दसि न तु मृगाख्यायाम् । एके इति । तन्मतेऽस्मिन्स् नामधेयस्येत्यनुवर्तते । वचनविपरिणामेनान्वयः नामधे - ययोः । शुक्लगौरयोरादिरुदात्त इत्यर्थः । तेन 'सरो गौरो यथा पिब' इत्यत्रान्तोदात्तत्वमेव नामधेयत्वाभावात्। अङ्गुष्ठो । एषामन्तोदात्तश्छन्दसि । अङ्गुष्ठस्येति । उपलक्षणमिदम्। बकशब्देऽपि प्राणिनां कुपूर्वमित्याद्युदात्ते प्राप्ते इति बोध्यम् । वा भाषायाम् । पृष्ठमिति । पते 'स्वाङ्गशिटाम्' इत्यादयुदात्तत्वम् । अर्जुनस्य । अन्त उदात्तस्तृणाख्यायाम् । तृणाख्यायां किम् | अर्जुनो वृक्षः । ' उनर्वनन्तानाम्' इत्यायुदात्तः । अर्यस्य । अन्त उदात्तः स्वाम्याख्यायाम् । 'अर्थ: स्वामिवैश्ययोः' 11 नार्थत्वात् । कृष्णस्या । श्रत्र छन्दसीति वर्त्तते इत्याहुः । अन्तोदात्त इत्येव । श्रख्येति किम् ? कृष्णो मृगः । वा नामधेय । अन्तोदात्तत्वं वा । पक्षे श्रद्युदात्तत्वम् । शुक्लगौरयोः । नामधेयस्येति वर्त्तते । तेनाऽनामधेययोरन्तोदात्तत्वमेव । 'ऋजेन्द्रे'1 त्युणादिसूत्रनिपातिताऽन्तोदात्तत्वकस्य शुक्रशब्दस्य लत्वे शुक्लशब्दव्युत्पत्तेरिति बोध्यम् । श्रङ्गुष्टोदक | 'अन्त' इति त्वादिग्रहणानुवृत्तिशङ्कानिराकरणार्थम् । उदकस्य - कर्दमादित्वादाद्यद्वितीययोः पर्यायेण प्राप्ते, बकस्य - 'प्राणिनाञ्च कुपूर्व'मित्यत्वे प्राप्ते । तेन लोके इति । नियमकरणसामर्थ्यादिति भावः । वशाशब्दश्च वशेः पचाद्यचि टापीति तात्पर्यम् । पृष्ठस्य च । 'मृष्टस्ये 'ति पाठान्तरम् । वा भाषायामिति | पक्षे 'स्वाङ्गशिटा 'मित्याद्युदात्तत्वम् । सृष्टे - 'निष्ठा च द्यजना' -
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy