________________
४६४ ] सिद्धान्तकौमुदी। [फिदसूत्रेषु शिटामिति वा बोध्यम् । ७ हिष्टवत्सरतिशतथान्तानाम् । एषामन्त उदात्त: स्यात् । अतिशयेन बहुलो बंहिष्ठः । निश्चादायदात्तत्वे प्रासे । बहिरिश्वैः सुवृता रथेन । यद्वंहिष्ठं नातिविदे इत्यादी व्यत्ययादायुदात्तः । परिवरसरः। अव्ययपूर्वपद. प्रकृतिस्वरोऽत्र बाध्यत इत्याहुः । सप्ततिः । प्रशीतिः बघावन्त इति प्राप्ते। चत्वारिं. शत् । इहापि प्राग्वत् । अभ्यूएर्वाना प्रभृशस्यायोः । भव्ययपूर्वपदप्रकृतिस्वरो. ऽत्र बाध्यत इत्याहुः । थाथादिसूत्रेण गतार्थमेतत् । ८ दक्षिणस्य साधौ। अन्त उदात्तः स्यात् । साधुवाचिस्वाभावे तु ज्यवस्थायां सर्वनामतया स्वाकशि. टामित्याद्युदात्तः । अर्थान्तरे तु लघावन्त इति गुरूदात्तः । दक्षिणः सरनोदारपरच्छन्दानुवतिविति कोशः । ६ स्वाङ्गाख्यायामादि। इह दक्षिणस्याधन्तौ पर्यायेणोदात्तौ स्तः । दक्षिणो बाहुः। पाख्याग्रहणं किम्-प्रत्यङ्मखस्या. सीनस्य वामपाणिर्दक्षिणो भवति । १० छन्दसि च । अस्वानार्थमिदम् । रुद्धोऽयं ग्रन्थ इत्यस्वरसादाह अन्तरङ्गत्वादित्यादि । हिष्ठ । एषामिति । हिष्ठ वत्सर ति शत् थ एतदन्तानामित्यर्थः। बंहिष्ठ इति। बहुलशब्दाद् 'अतिशायने तमविधनौ' इतीष्ठन् । 'प्रियस्थिरस्फिर-' इत्यनेन बहुलत्य बंहिरादेशः । परिवत्सर इति । क्वचित्तु संवत्सर इति पाठस्तत्र 'वसेश्च संपूर्वाच्चित्' इति सरप्रत्ययस्य चित्त्वादपि सिद्धे सप्ततिरित्यादि । पंक्तिविंशतित्रिंशत्' इत्यत्र व्युत्पा- दिता एते । 'लघावन्ते' प्राग्वदिति । इति प्राप्त इत्यर्थः । दक्षिणस्य । अस्यान्त उदात्तः स्यात्प्रावीण्येऽर्थे । वीणायां दक्षिणः । प्रवीण इत्यर्थः । छन्दसि । दक्षिणस्याप्रहणात्सर्वनामप्रातिपदिकसज्ञाकालिकाऽदन्तत्वमादाय तत्प्रवृत्तिरिति बोध्यम् । [एवं पूर्वत्र गुदाशब्देऽपि बोद्धयम् ] । अस्थ्यादिस्वामवाचकशकशब्दे 'स्वाङ्गशिटा'. मित्यायुदात्तत्वप्राप्त्या सोप्यत्र प्रत्युदाहरणम् । 'प्रीवायां बद्धो अपि कक्ष श्रासनी'त्यादौ ग्रीवाशब्दस्यान्तोदात्तत्वन्तु छान्दसत्वान्निर्वाह्यम् । हिष्ठवत्सर । इत्याहुरिति । अत्राऽरुचिबीजन्तु 'संपूर्वाचि'दिति सरप्रत्ययस्य चित्त्वात्सिद्धम् । परिवत्सरस्तूदाहार्य इति । 'अनेनैव सिद्धे तयर्थमित्याशय' इति तत्त्वम् । अत्र सूत्रे शत्साहचर्यात्तिशब्दः पतयादिसूत्रविहित एव गृह्यते । दक्षिणस्य साधाविति । प्रवीणे इत्यर्थः । 'वीणायां सामसु वा दक्षिण' इत्युदाहरणम् । प्रवीण इत्यर्थः । स्वाङ्गा. ख्यायामादि । स्वाङ्गेति किम् ? दक्षिणो देशः । अत्र सर्वनामत्वादायुदात्तत्वम् । न च परत्वादेव तेनायुदात्तत्वमत्र भविष्यतीति वाच्यम् , अस्य प्रकरणस्य बाधकबाध