________________
प्रकरणम् ]
सुबोधिनी - शेखरसहिता ।
[ ४६१
उदुम्बरावती । शरावती । ३७०६ अन्तोऽवत्याः । ( ६-१ - २२० ) अवतीशब्दस्यान्त उदात्तः । वेत्रवती । ङीपः पिश्वादनुदात्तत्वं प्राप्तम् । ३७०७ ईवत्याः । ( ६-१-२२१ ) ईवत्यन्तस्यापि प्राग्वत् । अहीवती । सुनीवती । इति प्रातिपदिकस्वराः ।
अथ फिट्सूत्राणि ।
प्रथमपादः ।
१ फिषोऽन्त उदात्तः । प्रातिपदिकं फिट् । तस्यान्त उदात्तः स्यात् । तु शब्दस्वरूपापेक्षया नपुंसक निर्देशः । केचित्तु सूत्रे पूर्वशब्दं पुंल्लिङ्गमेव पठन्ति । शरावतीति । चातुरर्थिको नद्यो मतुप् 'मादुपधायाः' इति वत्वम् । 'मतौ बह्वचोऽनजिर:दीनाम्' शरादीनां च' इति दीर्घत्वम् । वेत्रवतीति । मतुप् । वत्वम् । न चात्र वत्वस्यासिद्धत्वादवतीशब्दोऽयं न भवतीति शङ्खयम् । तस्याश्रयात्सिद्धत्वेनासिद्धत्वाभावात् । अवत्या इति निर्देशादिह न भवति राजवतीति स्वरविधौ व्यञ्जनस्याविद्यमानत्वाश्वायमवतीशब्दः । श्रहीवतीति । पूर्ववद्दीर्घः । संज्ञायामिति वत्वम् । इति प्रत्ययस्वराः ।
अथ फिट्सूत्राणि । फिषोऽन्त उदात्तः । फिडिति पूर्वाचार्य प्रसिद्धया अत्र 'ह्रस्वनुड्य मतु’बित्येव । सञ्ज्ञायां किम् ? खट्वावती । स्त्रियां किम् ? उदुम्बरावान् | उदाहरणेऽत्र च 'मतौ बह्वचोऽनजिरादीनाम् ' ' शरादीनां चे 'ति दीर्घः, चातुरार्थंको 'नयां मतुप्' । मतोः किम् ? गवादनी । तदभावे पूर्वग्रहणस्याऽप्यभावात्सञ्ज्ञाशब्दसंबन्धिन आकारमात्रस्य स्यादिति । पूर्वग्रहणान्नेह – सानुमती । अन्यथा स्त्रीनाम्नो मत्वन्तस्येत्यर्थः स्यात् । अन्तोऽवत्याः । वत्या - अन्त इति तु नोक्कम्, 'राजवती 'त्यत्र माभूदिति । स्वरविधौ नलोपस्यासिद्धत्वान्नाऽवतीशब्दः, किन्त्वन्वतीशब्दः । वत्वं त्वाश्रयात्सिद्धम् । अहीवतीति । 'सञ्ज्ञायामिति वत्वम् । 'शरादीनां चे 'ति दीर्घः । योगविभागश्चिन्त्य प्रयोजनः ।
अथ फिट्सूत्राणि ! अपाणिनीयान्यप्येतानि 'आयुदात्तश्च' ' उपसर्गादृति- ' 'अवङ् स्फोटायनस्ये’त्यादिसूत्रेषु भाष्यादौ व्यवहृतत्वादविरुद्धत्वाच्च साधुस्वठयवस्थापकानि भवन्ति । यत्तु पाणिनीयान्येवैतानीति, तन्न, 'वृषादीनाच' 'उच्छादीनाचे'त्याभ्यामाकृतिगणाभ्यां क्रमेणाद्युदात्तत्वाऽन्तोदात्तत्वयोः सिद्धयोः 'प्रामादीनाञ्च'