________________
४६० ]
सिद्धान्तकौमुदी । [ प्रातिपदिकस्वर
1
1
ईढ्यो वन्द्य॑श्च । श्रेष्ठ॑ नो धेहि वार्य॑म् । उ॒क्थमिन्द्रा॑य॒ शंस्य॑म् । ३७०३ विभाषा वेरिवन्धानयोः । ( ६-१-२१५ ) प्रादिरुदात्तो वा । इन्धन अग्निम् । ३७०४ त्यागरागहासकुहश्वठक्रथानाम् । ( ६-१-२१६ ) श्रादिरुदात्तो वा । श्राद्यास्त्रयो घमन्ताः त्रयः पचाद्यजन्ताः । ३७०५ मतोः पूर्वमात्संज्ञायां स्त्रियाम् । ( ६- १ - २१६ ) मतो: पूर्वमाकार उदात्तः स्त्रीनानि ।
1
इत्यादि । 'ऋहलो: -' इति यत् । वार्यमिति । नन्वत्र एतिस्तुशासु -' इत्यादिना विशेषविहितेन क्यपा भाव्यमिति चेत्सत्यम् । क्यब्विधौ वृञ एव ग्रहणं नास्येति मूल एव स्पष्टम् । विभाषा । वेणुशब्दो नित्स्वरेण नित्यमाद्युदात्तः प्राप्तः । 'स्थो णुः' इत्यनुवर्तमाने 'जृषृरिभ्यो निच्च' इति व्युत्पादनात् । इन्धानशब्दो यदि चानशन्तस्तदा चित्त्वादन्तोदात्तः । यदा शानजन्तस्तदा लसार्वधातुकानुदात्तत्वे कृते उदात्तनिवृत्तिस्वरेण मध्योदात्तः । 'नसोरल्लोपः' इति उदात्तस्य श्नसोऽकारस्य लोपात् सर्वथाप्यप्राप्तमायुदात्तत्वं पक्षे विधीयते । त्यागराग । त्यज हानौ । 'चजो:-' इति कुवम् । रञ्ज रागे 'घनि च भाव -' इति नलोपः । हसे हसने एषां पते कर्षात्त्वतो घञोऽन्त उदात्तः' इति भवति । त्रयः पचाद्यजन्ता इति । कुछ विस्मापन, श्वठ श्रसम्यग्भाषणे, चौरादिकावदन्तौ । क्रथ हिंसायाम् । अत्र प्रत्ययस्वरेणान्तोदात्तत्वं पक्षे भवति । मतोः । मतोः पूर्व अकार इति । श्रार्थव्याख्यानमेतत् । सूत्रे विभाषा । वेणुशब्दो नित्त्वादायुदात्तः प्राप्तः । 'स्थो गु' रित्यनुवर्तमाने 'अजिवृरीभ्यो निच्च' इति व्युत्पादितत्वात् । इन्धाने यदि चानश तदाऽन्तोदात्तत्वं प्राप्तम्, यदि शानच् तदाऽप्यन्तोदात्तत्वमेव प्राप्तम् । यत्तु नमोऽकारस्योदात्तस्य लोपाल्ल सार्वधातुकानुदात्तत्वे उदात्तनिवृत्तिस्वरेण शानजन्तो मध्योदात्त इति, तन्न, विदीन्धिखिदिभ्यो लसार्वधातुकानुदात्तत्वप्रतिषेधात् । केचित्त्वस्य वचनस्य तिङन्ते एव प्रवृत्तिः । भाष्ये प्रथमतो लिङित्युक्त्वाऽप्रे विशेषेणेत्युक्ते लिं भिन्ने लिब्सदृशेऽकृदादेशिन्येव प्रवृत्तिप्रतीतेरित्याहुः । यदा वेणुरिव वेणुरिति कनो 'लुम्मनुष्ये' इति लुप्तदा 'सज्ञायामुपमानमिति नित्यमायुदात्तत्वमिष्यते । त्यागराग । श्राद्यास्त्रय इति । तत्र 'कर्षात्त्वत:' इति पक्षेऽन्तोदात्तत्वं बोद्धयम् । अन्त्येषु त्रिषु प्रत्ययस्वरेणान्तोदात्तत्वम् । तत्र कुद्दश्वठौ चुरादावदन्तौ । मतोः पूर्वम् । पूर्वमिति शब्दस्वरूपापेक्षया नपुंसकस्य श्रादित्यस्य विशेषणम् । केचित्तु सूत्रे पूर्वशब्दं पुंल्लिङ्गं पठन्ति । 'स्त्रियां सज्ञायामित्यस्य स्त्रियां वर्तमाना या सब्ज्ञा तस्यां विद्यमान आदित्यर्थः । तदाह स्त्री नानीति । मत्वन्तं चेत्स्त्रीनाम भवतीत्यर्थः । किम् ? इक्षुमती |