________________
४८८ ]
सिद्धान्तकौमुदी । [ प्रातिपदिकस्वर
३६६४ शुष्कधृष्टौ । ( ६-१-२०६ ) एतावाद्युदात्तौ स्तः श्रसंज्ञार्थमिदम् । अतसं न शुष्क॑म् । ३६६५ आशितः कर्ता । ( ६- १ - २०७ ) कर्तृवाची प्राशितशब्द प्रायुदात्तः । कृषन्निस्फाल श्राशितम् । ३६६६ रिक्ते विभाषा । ( ६-१-२०८ ) रिक्कशब्दे वाऽऽदिरुदात्तः । रिक्तः । संज्ञायां तु 'निष्ठा च व्यजनाव ' ( ३६३३ ) इति नित्यमायुदात्तत्वं पूर्वविप्रतिषेधेन । ३६६७ जुष्टार्पिते च छन्दसि । ( ६- १ - २०६ ) श्रायुदात्ते वा स्तः । ३६६८ नित्यं मन्त्रे ( ६-१-२१० ) एतत्सूत्रं शक्यमकर्तुम् । जुष्टो दर्मूनाः । षर्लर धाद्दुरर्पितम् । इत्यादेः पूर्वेणैव सिद्धेः । छन्दसि पाठस्य व्यवस्थिततया खरेणान्तोदात्तावेतौ । असंज्ञार्थमिति । संज्ञायां तु 'निष्ठा च द्यजनात्' इत्येव सिद्धम् । शुष्कमिति । शुषः क्तः तस्य 'शुषः कः' इति कादेशः । श्रशितः । कर्तृवाचीति । श्राङ्पूर्वादश भोजनेऽस्मात्कर्तरि क्तो निपात्यते । अपर श्राह । कर्तेत्यनेन भूतपूर्वगत्या अणौ कर्ता णौ कर्मीभूत एव विवक्षितः । तथा चाशेर्यन्तस्य प्रयोज्यकर्तरि 'गतिबुद्धिप्रत्यवसानार्थ-' इति कर्मसंज्ञके निष्ठायामाशित इति रूपमिति । रिक्त इति । रिचिर् विरेचने । संज्ञायामित्यादि । 'निष्ठा च व्यजनात्' इत्यस्यांवकाशः । गुप्तः । अस्य त्ववकाशः श्रसंज्ञायां रिक्लो घट इति । संजायामुभयप्रसङ्गे पूर्वविप्रतिषेधः, रिक्तो नाम कश्चित् । जुष्टार्पिते । जुष्टः । अर्पितः इत्येते शब्दरूपे छन्दसि विषये आदते वा स्तः । जुषी प्रीतिसेवनयोः क्तः । 'श्वीदितो निष्ठायाम्' इतीग्निषेधः । जुष्टः । अर्तेर्णिच् । 'अर्ति-' इत्यादिना पुक् । अर्पितः । नित्यम् । जुष्टार्पिते शब्दरूपे मन्त्रविषये नित्यमायुदात्ते स्तः । पूर्वेणैव सिद्धेरिति । ननु पत्तेऽन्तोदात्तत्वमपि प्राप्नोतीत्याशङ्कधाह छन्दसीत्यादि । न केवलं गतार्थत्वरित्यर्थः । निष्ठेत्यादि षष्ठ्यर्थे प्रथमा । 'अद्यक्ति' इत्यादावेकादेशस्य बहिरङ्गाऽसिद्धस्वादनादिति प्रतिषेधो न । श्रशितः क । सकर्मकादप्यशेः कर्त्तरि क्व उपधादीर्घवात्रैव निपात्यते । श्राङ्पूर्वत्वे क्रमात्रम् | 'आङ्पूर्वादविवचितकर्मत्वेनाऽकर्मकत्वात्कर्तरि क्व' इति वृत्तिः । विवक्षाऽविवक्षयोश्च प्रयोगाधीनत्वान्नाऽनिष्टापादनमिति तदाशयः । श्राङ्पूर्वत्वे 'थाथघ' ञित्यस्याप्यपवादोऽयम् । श्रन्ये तु रायन्तात्कर्मण्ये - वाऽयं क्व इति कर्तेत्यनेन चाऽणौ कर्ता णौ कर्मीभूत एव विवक्षित इत्याहुः । तदुभयमपि भाष्याऽसम्मतम् | रिक्ते विभाषा । पूर्वोत्तरसाहचर्याद्विक्तशब्दे विद्यमान श्रादिरित्यर्थः, न तु तत्र परे इत्यर्थः । रिक्त इति । पत्ते प्रत्ययस्वरेणाऽन्तोदात्तः । जुष्टार्पिते । वा स्त इति । पते, भाषायाञ्च प्रत्ययस्वरेणाऽन्तोदात्तौ । 'जुषी प्रीती'त्यतः 'श्वीदितो निष्ठायामितीट्प्रतिषेधः । अर्तेणिच् । 'अतिही 'ति