SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सुबोधिनी - शेखरसहिता | [ ४८७ 1 न्तस्याद्यन्तौ युगपदाद्युदात्तौ स्तः । हर्ष से दातवा उ । ३६८६ क्षयो निवासे । ( ६- १ - २०१ ) श्रायुदात्तः स्यात् । स्वे तये शुचिव्रत । ३६६० जयः करगम् । ( ६-१-२०२ ) करणवाची जयशब्द श्रायुदात्तः स्यात् । जयत्यनेन जयोऽश्वः । ३६६१ वृषादीनां च । ( ६-१-२०३ ) श्रादिरुदात्तः । श्राकृतिगयोऽयम् । वाजेभिर्वाजिनीवती । इन्द्रं वाणीः । ३६६२ संज्ञायामुपमानम् । ( ६-१-२०४ ) उपमानशब्दः संज्ञायामायुदात्तः । चञ्चेत्र चम्चा । कनोऽत्र लुप् । एतदेव ज्ञापयति क्वचित्स्वरविधौ प्रत्ययलक्षणं नेति । संज्ञायां किम्श्रग्निर्माणवकः । उपमानं किम्-जैत्रः । ३६६३ निष्ठा च द्वयजनात् । ( ६१-२०५ ) निष्ठान्तस्य द्व्यचः संज्ञायामादिरुदात्तो न स्वाकारः । दत्तः । द्व्यच् किम् - चिन्तितः अनास्किम् - त्रातः । संज्ञायामित्यनुवृत्तेर्नेह । कृतम् । हृतम् । न स्यात् । क्षयो । निवासेऽभिधेये नयशब्द प्रायुदात्तः । स्वे क्षये इति । क्षि निवासगत्योः । क्षयन्ति निवसन्ति यस्मिन्नित्यधिकरणे 'पुंसि संज्ञायाम् -' इति घः । निवासे किम् । व्याधेः क्षयः । क्षि क्षये 'एरच्' । कर्तरि षष्टी । जयः । जयोऽश्व इति । पुंसीति करणे घः । करणे किम् । जयो ब्राह्मणानाम् । भावे 'एरच्' । .वृषादीनाम् । वृधु सेचने इगुपधलक्षणः कः । वाजेभिरिति । वजेर्घञ् । 'कर्षात्त्वतः-' इत्यन्तोदात्ते प्राप्ते वृषादेरा कृतिगणत्वादायुदात्तः । संज्ञायाम् । चञ्चेति । उपमानशब्दोऽयमुपमेयस्य संज्ञा । कनो लुबिति । 'इथे प्रतिकृती' इति कनो 'लुम्मनुष्ये' इति लुप् । ननु प्रत्ययलक्षणेन निवाद 'ज्नित्यादिर्नित्यम्' इत्येव सिद्धमतश्राह तदेवेति । निष्ठा । दत्त इति । ददातेः क्तः 'दो दद्धोः' इति दतादेशः । चिन्तित इति । चिति स्मृत्याम् । चुरादिः । कृतं हृतमिति । प्रत्ययनेष्यते' इति भाष्यम् । तेन पथिप्रिय इत्यत्र पूर्वपदप्रकृतिस्वरेणान्तोदात्त एव । सुपन्था इत्यादावपि प्रत्ययलक्षणं नास्त्येव । समासाद्या विभक्तिः सा तु न पथिमथोर्विहितेति न तत्राप्यस्य प्रवृत्तिः । क्षयो निवासे । क्षियन्ति निवसन्त्यस्मिन्नित्यधिकरणे 'पुंसि सज्ञायामिति घः । निवासे किम् ? जयश्वो 'राणामित्यादावेर जन्तत्वादन्तोदात्तत्वमेव । जयोऽश्व इति । तेनैव करणे घः । अन्यत्ररच्यन्तोदात्तत्वम् । वृषादीनाञ्च । वृषु सेचने । इगुपधलक्षणः कः । आकृतिगण इति । फिट्सूत्रेषु 'प्रामादीनाञ्चे 'ति पठितं सोऽप्याकृतिगणः । एवञ्चाऽविहितायुदात्तस्य वृषादित्वम्, ग्रामादित्वं वा बोद्धयम् । अन्तोदात्तस्य तूञ्छादित्वम् घृतादित्वं वा बोद्धयम् । एवञ्च द्वाभ्यामेव सूत्राभ्यां सर्वेष्टसिद्धावितरसूत्रद्वयप्रणयनं कर्तृभेदान्न दोषायेति दिक् । एतदेवेति । एतच्चोपपादितम् । निष्ठा च व्यजनात् । श्राकारभिन्न आदि "
SR No.006151
Book TitleLaghu Siddhant Kaumudi Part 04
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1979
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy