________________
४८६ ]
सिद्धान्तकौमुदी। [प्रातिपदिकस्वरपरे सर्वशब्दस्यादिरुदात्तः स्यात् । सर्वे नन्दन्ति यशसा । ३६८६ नित्यादिनित्यम् । (६-१-१६७) भिदन्तस्य निदन्तस्य चादिरुदात्तः स्यात् । यस्मिविश्वानि पौंस्या । पुंसः कर्मणि ब्राह्मणादित्वात् व्यञ् । सुते दधिष्व नश्वनः । चायतेरसुन् ( उ.) चायेरन्ने हखश्च इति चकारादसुनो नुढागमश्च । ३६८७ पथिमथोः सर्वनामस्थाने। (६-१-१६६) धादिरुदात्तः स्यात् । अयं पन्थाः । सर्वनामस्थाने किम्-ज्योतिष्मतः पथो रक्ष। उदात्तनिवृत्तिस्वरेणान्तोदात्तं पदम् । ३६८८ अन्तश्च तवै युगपत् । (६-१-२००) तवैप्रत्यया. 'अनुदात्तादेरज्' इत्यनुदात्तलक्षणोऽञ् यथा स्यात् । श्रवणं तु सर्वत्रानुदात्तस्यैव प्रत्ययलक्षणेनापि सर्वस्वरस्येष्यमाणत्वात् । नित्यादि । 'भीही-' इति सूत्रे पूर्वप्रहणेन 'सौवर्यः सप्तम्यस्तदन्तसप्तम्य' इति ज्ञापितत्वात् तदन्तसप्तमीयमित्याह त्रिदन्तस्येति । पथिमथो । 'गमेरिनिः' । 'उषः कित्' । मन्थः । 'पतेः स्थ च' इतीनिप्रत्ययान्तावेतावन्तोदात्तौ । मन्थः कित्त्वादुपधालोपः । पन्था इति । 'पथिमध्यभुक्षामात्' 'यो न्थ.' पथ इति । भस्य टेर्लोपः उदात्तनिवृत्तिस्वरेणेति । 'अनुदात्तस्य च यत्रोदात्तलोपः' इति विभक्तिरुदात्ता। दातवा उ इति । ददातेः ‘कृत्यार्थे तवैकेन्केन्यत्वनः इति तवैप्रत्ययः। ऐकारस्यायादेशः । 'लोपः शाकल्यस्य' इति यलोपः । युगपद्ग्रहणं पर्यायनिवृत्त्यर्थम् । अन्यथा एकवर्जमिति वचनाद्योगपयं 'षट्त्री'त्यन्तोदात्तत्त्वम् । सर्वस्य सुपि । सर्वशब्दश्च गणेऽन्तोदात्तो निपातितः । उच्छादिपाठाद्वाऽन्तोदात्तः। एवञ्च 'सुपि किम् ? सर्वतरः' इति वृत्त्युक्त चिन्त्यम् , प्रत्ययलक्षणेन तत्राऽपि सुबन्तत्वात् । अत्यन्तस्वार्थिकस्तरबादिस्तु न भाष्यारूढः, अत्र सुपीत्युक्तः । तत्फलन्तु सर्वस्य विकारः सार्व इत्यत्राऽनुदात्तादिप्रकृतिकसुबन्तलक्षणाऽसिद्धिः । श्रवणन्वायुदात्तस्यैव । प्रत्ययलक्षणेनाऽपि सर्वस्वरस्येष्यमाणत्वात् । सप्तमीनिर्देशस्तु लाघवार्थः, सौवरीणां सप्तमीनां तदन्तसप्तमीत्वात् । 'सर्वस्वरोऽनकच्कस्येति वक्तव्यम् । सर्वके । अत्रान्तोदात्त एव । नित्यादि । 'सौवर्यः' इत्यस्य सामान्यतः प्रवृत्तिमभिप्रेत्याह त्रिदन्तस्येति। ननु जुगुप्सेत्यादौ धातु. सज्ञातः परत्वामित्स्वरे कृते सचन्तस्य धातुत्वे सतिशिष्टत्वाद्धातुस्वरः प्राप्नोतीति चेन, सनो नित्त्वसामर्थ्येन सतिशिष्टस्यापि बाधेनाद्युदात्तत्वसिद्धेः। न च 'सन्यको'रित्यादौ विशेषणार्थः सः, अन्यथा 'वत्स' इत्यत्रापि स्यादिति वाच्यम् , धातोरि. त्यनुवर्त्य सशब्दान्तधातोत्विविधानेनाऽदोषात् । पथिमथोः सर्व। पथिमथिशब्दावन्तोदात्तौ । अत्र सौवरीणां सप्तमी। तदन्तपरत्वेऽपि 'लुमता लुप्ते प्रत्ययलक्षणं