________________
प्रकरणम् ] सुबोधिनी-शेखरसहिता [४८५ स्थानिवस्वानेह । चतस्त्रः पश्य । चतेरुरन् । नित्वादाद्युदात्तता । ३६८३ झल्यु. पोत्तमम् । (३-१-१८०) षट्तिचतुर्यो या झलादिविभक्तिस्वदन्ते पदे उपोत्तममुदात्तं स्यात् । अध्वर्युभिः पञ्चभिः । नवभिोजैनवती च । सप्तभ्यो जायमानः । प्रादभिर्विवस्वतः । उपोत्तमं किम्-श्रा षड्भिहूंयमानः । विश्व. देवैस्त्रिभिः । झलि किम्-नवानां नवतीनाम् । ३६८४ विभाषा भाषायाम् । ( ६-१-१८१ ) उक्तविषये । ३६८५ सर्वस्य सुपि । (६-१-१६१) सुपि इति रफादेशे तकारावारस्योदात्तत्वं प्राप्नोति । अत आह अचि र इति । स्थानिवत्त्वादिति । न च स्वरविधौ स्थानिवत्त्वनिषेधः। 'स्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवत्' इति नियमात् । भल्युपोत्तमम् । 'षत्रिचतुभ्यो हलादिः' इत्यस्यापवादः । पश्चभिरित्यादि। पञ्चनवसप्तदशशब्दाः कनिनन्ताः । पाष. इभिरिति । षट्शब्दः फिटस्वरेणान्तोदात्तः । तनोतेर्डिः । त्रिः। अयमपि फिट्स्वरेण प्रत्ययस्वरेण वान्तोदात्तः । उभयत्रापि 'षत्रिचतुभ्यो हलादिः' इति विभक्केरुदात्तत्वम् । नवानामिति । अत्रापि विभक्तिरुदात्ता। विभाषा । उक्तविषय इति । त्रिचतुर्व्यः परा या मलादिविभक्तिस्तदन्तस्योपोत्तमं भाषायामुदात्तं वा स्यात्। पञ्चभिः सप्तभिः तिसृभिः चतुभिापक्षे 'षत्रिचतुभ्यो हलादिः' इत्यन्तोदात्तानि। सर्वस्य । सर्वशब्द उञ्छादिष्वन्तोदात्तो निपातितः। सर्वस्य विकारः सार्व इत्यत्र पश्येत्यत्र 'उदात्तयणः' इत्यनेन भाव्यम् । चतुःशब्दे जसि असर्वनामस्थान इत्यनुवृत्त्या न दोषः । तस्माच्चतस्रः पश्येत्येव व्यावत्यम् । यदि निपातस्वरोऽस्य विभक्तिस्वरस्य बाधकः स्याद्धलादिग्रहणमनर्थकं स्यात् । न च 'चतुरः पश्ये'ति तयावर्त्यम् । 'चतुरः शसी'त्यारम्भसामयेन तस्य बाधात् । न च गौणे चरितार्थम् , वार्तिकप्रामाण्येन ताऽप्रवृत्तेरित्याहुः, तत्तु 'तिसृभ्यो जसः' इति सूत्रस्थेन 'उप. समस्तार्थमेके' इति भाष्येण जस्ग्रहणवद्धलादिग्रहणस्याऽपि तदर्थकत्वसूचनात् । वार्तिकव्याख्यानभाष्ये स्थितमपि भगवता दूषितमेव । तस्मादिति परिभाषया न विहितविशेषणसम्भव इति तदाशयः । एवं हलादिग्रहणसार्थक्यं मनसि निधाय ज्ञापकाऽसम्भवं मत्वा 'नैव वा पुनश्चतस्रः पश्येत्यत्र स्वरः प्राप्नोती'त्यादिप्रन्थेन मूलोक्युक्त्यैव साधितम् । तस्माद्गौणे 'षट्त्री'त्यादे 'श्चतुरः शसी'त्यादेश्च प्रवृत्तिरस्त्येव सत्यभिधाने इति माष्यसम्मतमिति ध्ययम् । झल्युपोत्तमम् । तदन्ते पदे इति । सौवरीणां सप्तमीनां तदन्तसप्तमीत्वादिति भावः । 'षट्त्री'त्यस्यापवादः। श्रा षड्भिरिति ।. 'आ' इति भिन्नं पदम् । विभाषा भाषायाम् । पर