________________
४८४ ] सिद्धान्तकौमुदी। [प्रातिपदिकस्वरस्यात् । उम्छादिषु युगशब्दो घनन्तोऽगुणो निपात्यते कालविशेषे रथाद्यवयवे च । वैश्वानरः कुशिकेमियुगेयुगे । अन्यत्र । योगेयोगे तवस्तरम् । भक्षशब्दो घमन्तः । गावः सोमस्य प्रथमस्य भवः । उत्तमशश्नत्तमावपि । उदुत्तमं वरुण। शश्वत्तममीळते । ३६८२ चतुरः शसि। (६-१-१६७ ) चतुरोऽन्त उदात्तः शसि परे । चतुरः कल्पयन्तः । 'भचि र' ( २६६) इति रादेशस्य पूर्वविधी पचेर्घञ् । 'चजोः-' इति कुत्वम् । कालविशेष इति । कृतद्वापरादौ । भक्षशब्द इति । भक्ष अदने चुरादिः । 'अनित्यण्यन्ताश्चुरादयः' इति यदा णिज् नास्ति तदा घञ् । ण्यन्तात्तु एरच्' इत्यचि सिद्धम् । एरजण्यन्तानामिति तु नास्तीत्याहुः । उत्तमशश्वत्तमाविति। तमबन्तावेतौ । तेन द्रव्यप्रकर्षविवक्षायामामभावः । द्वित्वानुदात्तत्वे प्राप्ते पाठः । चतुरः। 'चतेरुरन्' नित्त्वादायुदात्तत्वे प्राप्तऽन्तोदात्तार्थ मिदम् । ननु चतस्रः पश्येत्यत्र चतस अस् इति स्थिते परत्वाद् 'अचि र ऋतः'
उञ्छम्लेच्छजअजल्पा घमन्ताः । जपव्यधावबन्तौ । वध इति पाठस्तु चिन्त्यः, उदात्तनिवृत्तिस्वरेण सिद्धेः। गरो विषेऽबन्तोऽन्तोदात्तः, अन्यत्रायुदात्तः। वेदवेगवेष्टबन्धाः । करणे घअन्ताः, भावे आद्युदात्ता एव । 'स्तुयुावश्छ. न्दसि' । समासार्थमिदम् । परिष्टुत् , सुयुत् , परिद्युत् । वर्तनिः स्तोत्रे' । स्तोत्रे सामनि वर्तमानो वर्तनिशब्द उच्छादिः, अन्यत्र मध्योदात्तः। श्वभ्रे-दरः, अन्यत्राऽबन्तत्वादायुदात्तः । साम्बतापौ-भावगह याम् , अन्यत्रायुदात्तः । मन्थभोगदेहा-घनन्ताः । उञ्छादिराकृतिगण इति बहवः । घनन्त इति । णिजभावे। णिचि तु एरचैव सिद्धेः। ‘एरजण्यन्ताना'मिति तु नास्ति । चतुरः शसि । अत्र 'सौवर्यः सप्तम्यः' इति न प्रवर्तते, अन्यथा 'चतुरः शस' इत्येव वदेत् । नेहेति। तकाराऽकारस्य नेत्यर्थः। 'स्वरे नेति निषेधस्तु लोपरूपाऽजादेशस्यैव । स्वविधौ स्थानिवत्वाऽभावात्तस्यापि न । तस्मादायुदात्ततेवेति भावः । केचित्तु चतस्रादेशे आयुदात्तनिपातनसामर्थ्यात् 'चतुरः शसि' इति न प्रवर्तते । न च चतसृणामित्यत्र 'षटनीति विभक्तिखरस्यापि बाधापत्तिः, हलादिग्रहणसामध्येन तदबाधात् । तथा हि-पत्रिचतुरां बहुवचन विषयत्वाद् द्विवचनैकवचने न स्तः । उपसमस्ते सम्भवे. ऽपि विहितविशेषणान दोषः । तत्र षड्भ्यो जश्शसोलुंगेव, अन्या हलादयः । त्रिशब्दे जसि नेदम् , असर्वनामस्थान इत्यधिकारात् , शसि 'एकादेश उदात्तेने त्यनेन सिद्धम्, अन्या हलादयः । तिसर्यपि 'तिसभ्यो जसः' इत्यनेन भाष्यम् , 'तिस्रः