________________
प्रकरणम् ] सुबोधिनी शेखरसहिता । [४८३ मा हि चीकरताम् । धास्वकार उदात्तः । पक्षान्तरे चडुन्दात्तः ।
इति धातुस्वराः।
अथ प्रातिपदिकखराः। ३६८० कर्णत्त्वतो घोऽन्त उदात्त । (६-१-१५६ ) कर्षते/तोराकारवतश्च धजन्नस्यान्त उदात्तः स्यात् । कर्षः। शपा निर्देशात्तुदादेराद्युदात्त एव । कर्षः। पाकः । ३६८१ उच्छादीनां च । (६-१-१६०) अन्त उदात्तः तस्य समीपमुपोत्तमम् । मा हि चीकरतामिति । अदुपदेशात्परत्वेन लसार्वधातुकानुदात्तत्वे कृते च एव स्वरे प्राप्ते पक्षे धात्वकार उदात्तः । उपोत्तमप्रहणानुवृत्त्या द्वयोर्ने । मा हि दधत् । अत्र 'विभाषाधेश्योः ' इति चङ् । इति धातुस्वराः।
कर्षाऽऽत्त्वतः। नित्यादिनित्यम्' इत्यस्यापवादः । श्रादस्यास्तीति प्रात्वान् । 'तसौ मत्वर्थे इति भावाजश्त्वाभावः । कर्षश्चात्वांश्चेति समाहारद्वन्द्वः। कर्ष इति शबन्तस्यानुकरणं न पन्तस्य । तदाह शपो निर्देशादिति । पाक इति । पर्यायणोदात्तौ । चङयन्य । 'उपोत्तमं रिति' इत्यत उपोत्तमग्रहणमनुवर्तते । चकुदात्त इति । तिङ् तु अदुपदेशात्परत्वेन 'तास्यनुदात्ते'दित्यनुदात्तः । उपोत्तमं किम् ? मा हि दधत् । अत्र च एव खरः । इति धातुवराः।
श्रीः। अथ प्रातिपदिकखराः। ते च प्रायेण कृत्तद्धितप्रत्ययबलेनैव ज्ञेयाः, उणादिषु उणादिप्रत्ययैः, अव्युत्पत्तिपक्षे फिटसूत्रः, क्वचिद्विशिष्य विधानादित्यूह्यम् । अत एव पुत्रीयतेः क्विपि पुत्रीरित्यादौ सर्वानुदात्तत्वमेव । अत एव 'कर्मण्य'णिति सूत्रे मांसशब्दस्य 'नविषयस्येति फिट्स्वरमाशय ‘मनेर्दीर्घश्चे' त्यौणादिकसप्रत्ययान्तत्वादन्तोदात्तता कैयटेनोक्ता । 'मांसमे'कः पिंशती'त्यादि लक्ष्यमपि तथैव । आज्यशब्दे तु 'श्रापूर्वाद ः क्य'बिति पते श्राद्युदात्तत्वं स्पष्टमेव । ण्यत्पक्षे तु 'नविषयस्थे' त्याद्युदात्तत्वं बोध्यम् । कर्षात्वतः। कर्षतेराकारवतश्च परो यो घञ् तदन्तस्येत्यर्थः । 'नित्यादि'रित्यस्यापवादोऽयम् । वत्किम् ? आदन्तादित्यर्थे युक आदन्तभक्तत्वाद्दाय इत्यत्रैव स्यान्न तु पाक इत्यादौ । घाक्षिप्तधातुविशेषणत्वा. तदन्तविधिः। 'स्वरविधौ व्यञ्जनमविद्यमानव'दिति तु नास्ति. खरोद्देश्यकविधेर. भावात् । युको निर्दिश्यमानपरिभाषया आकारावयवत्वेऽपि आकारान्ताद्धातोर्विहित इत्यर्थः स्यादिति बोध्यम् । यद्यपि निर्दिश्यमानपरिभाषया घन एवोदात्तत्वम् , तथाप्यन्तप्रहणं 'खरविधौ सङ्घातः कार्या'ति ज्ञापितत्वादादेरन्तस्य च पर्यायेण मा भूदित्यर्थम् । एवञ्च स्वरविधौ निर्दिश्यमानपरिभाषाया अप्यप्रवृत्तिरित्याहुः । उच्छादी।