________________
४८२ ] सिद्धान्तकौमुदी। [धातुस्वरलोलूयम् । पक्षे लिस्वरः । ३६७८ अचः कर्तृयकि। (६-१-१६५) उपदेशेऽजन्तानां कर्तृयकि परे पादिरदात्तो वा । लूयते केदारः स्वयमेव । ३६७६ चड्यन्यतरस्याम् । (६-१-२१८) चान्ते धातावुपोत्तममुदात्तं वा । विशेषाभावादनेकाजुदाहृत इति हरदत्तप्रन्यादभ्यस्तेति निवृत्तमिति प्रतीयते तथाप्यार्थिकार्थकथनपरतया नेयम् । रणमुलि पर इति । यद्यपि सौवयः सम्यस्तदन्तसप्तम्य इति 'भीही-' इति सूत्रे व्यवस्थापितस्वाद् णमुलन्तस्यादिरुदात्तो भवतीति सूत्रार्थेन भाव्यं तथापि फले विशेषाभावादेवमुक्तमिति प्रतिभाति । लोलूयं लोलूयमिति। यजन्तारणमुल् । 'नि यवीप्सयोः' इति द्वित्वम् । अथ प्रथमो लोलूयशब्द आद्युदात्तः । लू इति स्वरितः । ततश्चत्वारः प्रचयाः । अचः। इह कीर्यत इत्यादी इत्वे रपरत्वे च सति अयं स्वर इष्टस्तनिर्वाहार्थ 'तास्यनुदात्तेत्-' इति सूत्रे समा. सैकदेशोऽप्युपदेशशब्द इहानुवर्तते सप्तम्या च विपरिणम्यते । तदाह उपदेशेऽ. जन्तानामिति । नन्वेवम् एकं द्वादशधा जज्ञे' इत्यादाविवान्तर्भूतण्यन्नात्कर्मकर्तृ. विषयाद् जनेर्लटि जायते स्वयमेवेत्यत्रैष स्वरो न स्यात् । 'ये विभाषा' इत्यात्वे सति उत्तरकालमजन्तत्वेऽपि उपदेशेऽनजन्तत्वादिति चेन्मैवम् । ये इति विषयसप्तमीभाश्रित्य प्रत्ययोत्पत्तः प्रागेवात्वप्रवृत्तेरित्याहुः। कर्तृयकीति । कतृवाचिनि सार्व. धातुके विहितो यो यक् तस्मिन् परे । लूयत इति । आदिमध्यौ पर्यायेणोदात्तौ 'तस्यानुदात्तेत्' इति ते इत्यस्यानुदात्तत्वम् । चड्यन्यतरस्याम् । 'उपोत्तम रिति' इत्यतः उपोत्तममिति वर्तते तदाह उपोत्तममिति । त्र्यादीनामन्त्यमुत्तमं अभ्यस्तानामियनुवृत्तिपरवृत्तिविरोधात् । यदि तु व्यवस्थितविभाषाश्रयणेनातिप्रसा. निरासमङ्गीकृत्य तदनुवृत्तिरनावश्यकीति तदाशयस्तदा 'शाच्छो'रिति सूत्रस्थेन व्यवस्थितविभाषापरिगणनपरेण भाष्येण विरोधः । लोलूयंलोलूयमिति । भाभीक्ष्ण्ये द्वित्वम् । परो लोलूयशब्दोऽनुदात्तः । लो-लू इत्युभयमप्युदात्तम् । न च तत्र कर्तव्येऽल्लोपस्य स्थानिवत्त्वम् , स्वरविधौ तनिषेधात् । शेषनिघातः। अचः कर्तृ. यकि। अत्रापि तदन्तसप्तमीत्वे न फले विशेषः। उपदेशेऽजन्तप्रकृतिककर्तृयगन्तस्याऽऽदिरुदात्त इत्यर्थात् । लूयते केदार इति । पक्ष यक्वरेण मध्योदात्तम् । उपदेशे किम् ? कीर्यते इत्यादावित्त्वे रपरत्वे चाऽयं खरो यथा स्यादिति। इदच 'तास्य-' नुदात्ते'दिति सूत्रात्समासैकदेशस्याप्युपदेशपदस्यानुवृत्त्या सप्तम्या विपरिणामेन च लब्धम् । न चैवं जनेरन्त वितण्यत्किर्मकर्तरि 'जायते.स्वयमेव' इत्यत्र न स्यात् उपदेशेऽजन्तत्वाऽभावादिति वाच्यम्, ये इति विषथसप्तमीमाश्रित्य प्रत्ययोत्पत्तेः प्रागे. वाऽऽत्वप्रवृत्तेः । 'उपदेश' इत्यस्य च यगुपदेशे इत्यर्थ इति दिक् । लू-य इत्यादिमध्यौ